Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयः प्रकाशः।
३७ सामान्यविशेषौ पर्यायौ तथापि संकेतग्रहणनिबंधनस्य शब्दव्यवहारविषयत्वादागमप्रस्तावे तयोः पृथनिर्देशः । तदनयोर्गुणपर्याययोर्द्रव्यमाश्रयः "गुणपर्ययवद् द्रव्यं" इति आचार्यानुशासनात् । तदपि सत्त्वमेव “सत्त्वं द्रव्यं" इत्याकरजवचनात् ।
तदपि जीवद्रव्यमजीवद्रव्यं चेति संक्षेपतो द्विविधं । द्वयमप्येतदुत्पत्तिविनाशस्थितियोगि "उत्पादव्ययध्रौव्ययुक्तं सत्" इति निरूपणात् । तथा हि, जीवद्रव्यस्य स्वर्गप्रापकपुण्योदये सति मनुष्यस्वभावस्य व्ययः, देवस्वभावस्योत्पादः, चैतन्यस्वभावस्य ध्रौव्यमिति, जीवद्रव्यस्य सर्वथैकांतरूपत्वे पुण्योदयवैफल्यप्रसंगात् । सर्वथा भेदे पुण्यवानन्यः फलवानन्य इति पुण्यसंपादनवैयर्थ्यप्रसंगात् परोपकारस्याप्यात्मसुकृतार्थमेव प्रवर्त्तमानत्त्वात्। तस्माज्जीवद्रव्यरूपेणाभेदः, मनुष्यपर्यायदेवपर्यायरूपेण भेद, इति प्रतिनियतनयनिरस्तविरोधौ भेदाभेदौ प्रामाणिकावेव । तथैवाजीवद्रव्यस्य मृद्रव्यस्यापि मृदः पिंडाकारस्य व्ययः, पृथुबुध्नोदराकारस्योत्पादः, मृद्रपस्य ध्रुव चमिति, सिद्धमुत्पादादियुक्तत्वमजीवस्य । स्वामिसमंतभद्राचार्याभिमतमतानुसारी वामनोपि सदुपदेशात्प्राक्तनमज्ञानस्वभावं हंतुमुपरितननयमर्थज्ञानस्वभावं स्वीकर्तुं च यः समर्थ आत्मा स एव शास्त्राधिकारीत्याह “न शास्त्रमसद्रव्येष्वर्थवत्" इति । तदेवमनेकांतात्मकं वस्तु प्रमाणवाक्यविषयत्वादर्थत्वेनावतिष्ठते । तथा च प्रयोगः, सर्वमनेकांतात्मकं, सत्त्वात् , यदुक्तसाध्यं न तन्नोक्तसाधनं यथा गगनारविंदमिति ।
ननु यद्यप्यरविंदं गगने नास्त्येव तथापि सरस्यस्तीति ततो न सत्त्वहेतुव्यावृत्तिश्चेत्तर्हि तदेतदरविंदमधिकरणविशेषापेक्षया सदसदात्मकमनेकांतमित्यन्वयदृष्टांतत्वं भवतैव प्रतिपादितमिति संतोष्टव्यमायुष्मता । उदाहृतवाक्येनापि सम्यग्दर्शनज्ञानचारित्राणां मोक्षकारणत्वमेव न संसारकारणत्वमिति विषयविभागेन कारणाकारणात्मकत्वं प्रतिपद्यते, सर्व वाक्यं सावधारणमिति न्यायात् । एवं प्रमाणसिद्धमनेकांतात्मकं वस्तु। . .

Page Navigation
1 ... 36 37 38 39 40 41 42