Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
न्यायदीपिका।
" ननु नैयायिकाभिमत आप्तः कथं न सर्वज्ञः ? इति चेदुच्यते तस्य ज्ञानस्यास्वप्रकाशकत्वादेकत्वाच्च विशेषणभूतं स्वकीयं ज्ञानमेव न जानातीति तद्विशिष्टमात्मानं सर्वज्ञोऽहमिति कथं जानीयात् ? एवमनात्मज्ञोयमसर्वज्ञ एव । प्रपंचितं च सुगतादीनामाप्ताभासत्वमाप्तमीमांसाविवरणे श्रीमदाचार्यपादैरिति विरम्यते । वाक्यं तु तंत्रांतरसिद्धमिति नेह लक्ष्यते । ___ अथ कोयमर्थो नाम ? उच्यते । अर्थोऽनेकांतः । अर्थ इति लक्ष्यनिर्देशः, अभिधेय इति यावत् । अनेकांत इति लक्षणकथनं । अनेके अंता धर्माः सामान्यविशेषपर्याया गुणा यस्यति सिद्धोऽनेकांतः । तत्र सामान्यमनुवृत्तस्वरूपं, तद्धि घटत्वं पृथुबुध्नोदराकारः, गोत्वमिति सास्नादिमत्वमेव; तस्मान्न व्यक्तितोत्यंतमन्यन्नित्यमेकमनेकवृत्ति । अन्यथा " न याति न च तत्रास्ते न पश्चादस्ति नाशवत् । जहाति पूर्व नाधारमहो व्यसनसंततिः " । इति दिङ्नागदूषणदूषितगणप्रसरप्रसंगात् । पृथुबुध्नोदराकारादिदर्शनानंतरमेव घटोऽयं गौरयमित्याद्यनुवृत्तप्रत्ययसंभवात् । विशेषोऽपि स्थूलोयं घटः सूक्ष्म इत्यादिव्यावृत्तप्रत्ययावलंबनं घटादिस्वरूपमेव । तथाचाह भगवान्माणिक्यनंदिभट्टारकः “सामान्यविशेषात्मा तदर्थः" इति । __पर्यायो द्विविधः, अर्थपर्यायो व्यंजनपर्यायश्चेति । तत्रार्थपर्यायो भूतत्वभविष्यत्त्वसंस्पर्शरहितशुद्धवर्तमानकालत्वावच्छिन्नं वस्तुस्वरूपं । तदेतहजुसूत्रनयविषयमामनंत्यभियुक्ताः । एतदेकदेशावलंबिनः खलु सौगताः क्षणिकवादिनः । व्यंजनं व्यक्तिः, प्रवृत्तिनिवृत्तिनिबंधनजलानयनाद्यर्थक्रियाकारित्वं । तेनोपलक्षितः पर्यायो व्यजनपर्यायो-मृदादेः पिंडस्थासकोशकुसूलघटकपालादयः पर्यायाः । ___ यावद्रव्यभाविनः सकलपर्यायानुवर्तिनो गुणाः । वस्तुत्वरूपरसगंधस्पर्शादयः । मृद्र्व्यसंबंधिनो हि वस्तुत्वादयः पिंडादिपर्यायाननुवर्तते, न तु पिंडादयः स्थासादीन् । तत एव पर्यायाणां गुणेभ्यो भेदः । यद्यपि

Page Navigation
1 ... 35 36 37 38 39 40 41 42