Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयः प्रकाशः।
३५
कथनमुपनयः, तथा चायं धूमवानिति । साधनानुवादपुरस्सरं साध्यनियमवचनं निगमनं, तस्मादग्निमानेवेति । अनयोर्व्यत्ययेन कथनमनयोराभासः । इत्यवसितमनुमानं । ___ अथागमो लक्ष्यते । आप्तवाक्यनिबंधनमर्थज्ञानमागमः । अत्रागम इति लक्ष्यं । अवशिष्टं लक्षणं । अर्थज्ञानमित्येतावदुच्यमाने प्रत्यक्षादावतिव्याप्तिः, अत उक्तं वाक्यनिबंधनमिति । वाक्यनिबंधनमर्थज्ञानमागम इत्युच्यमानेऽपि यादृच्छिकसंवादिषु विप्रलंभवाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसर्गादिज्ञानेष्वतिव्याप्तिः, अत उक्तमाप्तेति । आप्तवाक्यनिबंधनज्ञानमित्युज्यमानेऽपि आप्तवाक्यकर्मके श्रावणप्रत्यक्षेऽतिव्याप्तिः,अत उक्तमर्थेति । अर्थस्तात्पर्यरूप इति यावत् । तात्पर्यमेव वचसीत्यभियुक्तवचनात् । तत आप्तवाक्यनिबंधनमर्थज्ञानमित्युक्तमागमलक्षणं निर्दोषमेव ।
यथा “ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इत्यादिवाक्यार्थज्ञानं । सम्यग्दर्शनादीन्यनेकानि मोक्षस्य सकलकर्मक्षयस्य मार्ग उपायो, न तु मार्गाः, ततो भिन्नलक्षणानां दर्शनादीनां त्रयाणां समुदितानामेव मार्गत्वं, न तु प्रत्येकमित्ययमर्थः । मार्ग इत्येकवचनप्रयोगस्तात्पर्यसिद्धः, अयमेव वाक्यार्थः, अत्रैवार्थे प्रमाणसाध्यसंशयादिनिवृत्तिः प्रमितिः । ___ कः पुनरयमाप्त इति चेदुच्यते । आप्तः प्रत्यक्षप्रमितसकलार्थत्वे सति परमहितोपदेशकः । प्रमितेत्यादावेवोच्यमाने श्रुतकेत्रलिष्वतिव्याप्तिः, तेषामागमप्रमितसकलार्थत्वात् । अत उक्तं प्रत्यक्षेति । प्रत्यक्षप्रमितसकलार्थ इत्येतावदुच्यमाने सिद्धेष्वतिव्याप्तिः, अत उक्तं परमेत्यादि । परम हितं निःश्रेयसम् । तदुपदेश एव अर्हतः प्रामुख्येन प्रवृत्तिः । अन्यत्र तु प्रश्नानुरोधादुपसर्जनत्वेनेति भावः । नैवंविधः सिद्धपरमेष्ठी, तस्यानुपदेशकत्वात् । ततोऽनेन विशेषणेन तत्र नातिव्याप्तिः । आप्तसद्भावे प्रमाणमुपन्यस्तं । नैयायिकायभिमतानामाप्ताभासानामसर्वज्ञत्वात्प्रत्यक्षप्रमितेत्यादिविशेषणेनैव निरासः ।

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42