Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 31
________________ ३० न्यायदीपिका। अत एव न वहिणूंमं गमयति इति चेत् तन्न, उन्मीलितशक्तिकस्य कारणस्य कार्याव्यभिचारित्वेन कार्य प्रति हेतुत्वाविरोधात् । कश्चिद्विशेषरूपो, यथा वृक्षोऽयं शिशपात्वान्यथानुपपत्तेरिति । अत्र शिंशपा हि वृक्षविशेषः सामान्यभूतं वृक्षं गमयति । न हि वृक्षाभावे वृक्षविशेषो घटते इति। कश्चित्पूर्वचरो, यथा उदेष्यति शकटं कृत्तिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयः । कृत्तिकोदयानंतरं मुहूर्ताते नियमेन शकटोदयो जायते, इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चिदुत्तरचरो, यथा उदगाद्भरणी प्राकृत्तिकोदयान्यथानुपपत्तरित्यत्र कृत्तिकोदयः । कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयति । कश्चित्सहचरो, यथा मातुलिंगं रूपवद्भवितुमर्हति रसवत्त्वान्यथानुपपत्तेरित्यत्र रसः । रसो नियमेन रूपसहचरितस्तदभावेऽनुपपद्यमानस्तं गमयति । ___ एतेषूदाहरणेषु भावरूपानेवाग्न्यादीन्साधयंतो धूमादयो हेतवो भावरूपा एवेति विधिसाधकविधिरूपाः । एत एवाविरुद्धोपलब्धय इत्युच्यते । एवं विधिरूपस्य हेतोर्विधिसाधकाख्य आद्यो भेद उदाहृतः । द्वितीयस्तु निषेधसाधकाख्यः । विरुद्धोपलब्धिरिति तस्यैव नामांतरं । स यथा, नास्यं मिथ्यात्वमास्तिक्यान्यथानुपपत्तरित्यत्रास्तिक्यं । आस्तिक्यं हि सर्वज्ञवीतरागप्रणीतजीवादितत्वार्थरुचिलक्षणं । तन्मिथ्यात्ववतो न संभवतीति मिथ्यात्वाभावं साधयति । यथा वा, नास्ति वस्तुनि सर्वथैकान्तः, अनेकांतात्मकत्वान्यथानुपपत्तेरित्यत्रानेकांतात्मकत्वम् । अनेकांतास्मकत्वं हि वस्तुन्यबाधितप्रतीतिविषयत्वेन प्रतिभासमानं सौगतादिपरिकल्पितसर्वथैकांताभावं साधयत्येव । ननु किमिदमनेकांतात्मकत्वं ? यद्बलाद्वस्तुनि सर्वथैकांताभावः साध्यते इति चेदुच्यते । सर्वस्मिन्नपि जीवादिवस्तुनि भावाभावरूपत्वमेकानेकरूपत्वं नित्यानित्यरूपत्वमित्येवमादिकमनेकांतात्मकत्वं । एवं विधिरूपो हेतुर्शितः । प्रतिषेधरूपोऽपि हेतुर्द्विविधो, विधिसाधकः प्रतिषेधसाधक

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42