Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 30
________________ तृतीयः प्रकाशः। तस्मान्मत्रतनयत्वं हेत्वाभास एव । तस्य तावत्पक्षधर्मत्वमस्ति, पक्षीकृते गर्भस्थे तत्सद्भावात् । सपक्षेषु संप्रतिपन्नेषु तस्य विद्यमानत्वात्सपक्षे सत्त्वमप्यस्ति । विपक्षेभ्यः पुनरश्यामेभ्यश्चैत्रपुत्रेभ्यो व्यावर्तमानत्वाद्विपक्षाद्वयावृत्तिरस्ति । विषयबाधाभावादबाधितविषयत्वमस्ति । नहि गर्भस्थस्य श्यामत्वं केनचिद्बाध्यते । असत्प्रतिपक्षत्वमप्यस्ति, प्रतिकूलसमबलप्रमाणाभावात् । इति पांचरूप्यसम्पत्तिः । त्रैरूप्यं तु सहस्र शतन्यायेन सुतरां सिद्धमेव । ननु च न पांचरूप्यमात्रं हेतोर्लक्षणं । किं तर्हि ? अन्यथानुपपत्त्युपलक्षणमिति चेत्तर्हि सैवैकांतलक्षणमस्तु । तदभावे पाञ्चरूप्यसम्पत्तावाप मैत्रतनयत्वादौ न हेतुत्वं । तत्सद्भावे पांचरूप्याभावेऽपि कृत्तिकोदयादौ हेतुत्वमिति । तदुक्तं" अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण कि ॥ यौगान् प्रति तु " अन्यथानुपपन्नत्वं यत्र किं तत्र पंचभिः । - नान्यथानुपपन्नत्वं यत्र किं तत्र पंचभिः ॥ १॥” इति । सोयमन्यथानुपपत्तिनिश्चयैकलक्षणो हेतुः संक्षेपतो द्विविधः । विधिरूपः प्रतिषेधरूपश्चेति । विधिरूपोऽपि द्विविधो विधिसाधकः प्रतिषेधसाधकश्चेति । तत्राद्योऽनेकधा, तद्यथा।-कश्चित्कार्यरूपो, यथा पर्वतोऽयमग्निमान्धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः । धूमो ह्यग्नेः कार्यभूतस्तदभावेऽनुपपद्यमानोऽग्निं गमयति । कश्चित् कारणरूपः यथा वृष्टिर्भविष्यति विशिष्टमेघान्यथानुपपत्तेरिति । अत्र मेघविशेषो हि वर्षस्य कारणं स्वकार्यभूतं वर्षे गमयति। ननु कार्य कारणानुमापकमस्तु कारणाभावे कार्यस्यानुपपत्तेः । कारणं तु कार्याभावेऽपि संभवति, यथा धूमाभावेऽपि संभवन् वहिः सुप्रतीतः ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42