Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 28
________________ तृतीयः प्रकाशः। रिति । अत्र 'अदृष्टादयः' पक्षः, कस्यचित्प्रत्यक्षत्वं साध्यं, अनुमेयत्वं हेतुः, अग्न्याद्यन्वयदृष्टांतः । अनुमेयत्वं हेतुः पक्षीकृतेऽदृष्टादौ वर्तते, सपक्षभूतेऽग्न्यादौ वर्तते, ततः पक्षधर्मत्वं सपक्षे सत्त्वं चास्ति । विपक्षः पुनरत्र नास्त्येव, सर्वस्यापि पक्षसपक्षांतर्भावात् । तस्माद्विपक्षाद्वयावृत्तिस्त्येिव, व्यावृत्तेरवधिसापेक्षत्वादवधिभूतस्य च विपक्षस्याभावात् । शेषमन्वयव्यतिरंकिवद्रष्टव्यम् । पक्षवृत्तिर्विपक्षव्यावृत्तः सपक्षरहितो हेतुः केवलव्यतिरेकी । यथा. जीवच्छरीरं सात्मकं भवितुमर्हति प्राणादिमत्त्वात् । यद्यत्सात्मकं न भवति तत्तत्प्राणादिमन्न भवति, यथा लोष्ठमिति । अत्र जीवच्छरीरं पक्षः, सात्मकत्वं साध्यं, प्राणादिमत्त्वं हेतुः, लोष्ठादिर्व्यतिरेकिदृष्टांतः। प्राणादिमत्त्वं हेतुः पक्षीकृते जीवच्छरीर वर्तते । विपक्षाच्च लोष्ठादेावर्तते । सपक्षः पुनरत्र नास्त्येव । सर्वस्यापि पक्षविपक्षांतर्भावादिति । शेषं पूर्ववत् । ___ एवमेतेषां त्रयाणां हेतूनां मध्येऽन्वयव्यतिरेकिण एव पांचरूप्यं, केवलान्वयिनो विपक्षव्यावृत्त्यभावात् , केवलव्यतिरकिणः सपक्षसत्त्वाभावाच्च नैयायिकमतानुसारेणैव पांचरूप्यव्यभिचारः । अन्यथानुपपत्तेस्तु सर्वहेतुच्याप्तत्वाद्धेतुलक्षणत्वमुचितम् । तदभावे हेतोः स्वसाध्यगमकत्वाघटनात् । यदुक्तमसिद्धादिदोषपंचकनिवारणाय क्रमेण पंचरूपाणीति तन्न, अन्यथानुपपत्तिमत्त्वेन निश्चितस्यैवास्मदभिमतलक्षणस्य तन्निवारकत्वसिद्धेः । तथा हि, साध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तत्वं खलु हेतोर्लक्षणं, साध्याविनाभावित्वेन निश्चितो हेतुरिति वचनात्। न चैतदसिद्धस्यास्ति, शब्दानित्यत्वसाधनायाभिप्रेतस्य चाक्षुषत्वादेः स्वरूपस्यैवाभावे कुतोन्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिः । __ततःसाध्यान्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्त्यभावादेवास्य हेत्वाभासत्वं, न तु पक्षधर्मत्वाभावात् , अपक्षधर्मस्यापि कृत्तिकोदयादेर्यथोक्तलक्षणसम्पत्ते-- रेख सद्धेतृत्वप्रतिपादनात् । विरुद्धादेस्तु तदभावः स्पष्ट एव । नहि विरुद्धस्य

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42