Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयः प्रकाशः। सपक्षे सत्त्वं विपक्षाद्वयावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चरू. पाणि । तत्राद्यानि त्रीण्युक्तलक्षणानि । साध्यविपरीतनिश्चायकप्रबलप्रमाण. रहितत्वमबाधितविषयत्वं, तादृशसमबलप्रमाणशून्यत्वमसत्प्रतिपक्षत्वम् । तद्यथा, पर्वतोयमग्निमान् धूमवत्त्वात् । यो यो धूमवान् स सोऽग्निमान् यथा महानसः, यो योऽग्निमान् न भवति स स धूमवान् न भवति, यथा महाह्रदः । तथा चायं धूमवांस्तस्मादग्निमानेवेति ।
अत्र हि अग्निमत्त्वेन साध्यधर्मेण विशिष्टः पर्वताख्यो धर्मी पक्षः । धूमवत्त्वं हेतुः । तस्य च तावत्पक्षधर्मत्वमस्ति, पक्षीकृते पर्वते वर्तमानत्वात् । सपक्षे सत्त्वमप्यस्ति, सपक्षे महानसे वर्तमानत्वात् । ननु केषुचित्सपक्षेषु धूमवत्त्वं न वर्तते, अंगारावस्थापन्नाग्निमत्सु प्रदेशेषु धूमाभावादिति चेन, सपक्षैकदेशवृत्तेरपि हेतुत्वात् । सपक्षे सर्वत्रैकदेशे वा वृत्तिहेतोः सपक्षे सत्त्वमित्युक्तत्वात् । विपक्षाद्वयावृत्तिरप्यस्ति, धूमवत्त्वस्य सर्वमहाह्रदादिविपक्षाद्वयावृत्तेः । अबाधितविषयत्वमप्यस्ति धूमवत्वस्य हेतोर्यो विषयोऽग्निमत्वाख्यं साध्यं तस्य प्रत्यक्षादिप्रमाणाबाधितत्वात् । असत्प्रतिपक्षत्वमप्यस्ति अग्निरहितत्वसाधकसमबलप्रमाणासंभवात् । तथा च, पांचरूप्यसम्पत्तिरेव धूमवत्त्वस्य साध्यसाधकत्वे निबंधनम् । एवमेव सर्वेषामपि सद्धेतूनां रूपपंचकसम्पत्तिरूहनीया । ___ तदन्यतमविरहादेव खलु पंचहेत्वाभासाः, असिद्धविरुद्धानेकांतिककालात्ययापदिष्टप्रकरणसमाख्याः संपन्नाः। तथा हि, अनिश्चितपक्षवृत्तिरसिद्धः । यथा अनित्यः शब्दश्चाक्षुषत्वात् । अत्र हि चाक्षुषत्वं हेतुः पक्षीकृते शब्दे न वर्तते, श्रावणत्वात् शब्दस्य । तथा च पक्षधर्मत्वविरहादसिद्धत्वं चाक्षुषत्वस्य । साध्यविपरीतव्याप्तो विरुद्धः । यथा नित्यः शब्दः कृतकत्वादिति । कृतकत्वं हेतुः साध्यभूतनित्यत्वविपरीतेनानित्यत्वेन व्याप्तत्वात् , सपक्षे च गगनादावविद्यमानत्वाद्विरुद्धः ।
सव्यभिचारोऽनैकांतिकः । यथा अनित्यः शब्दः, प्रमेयत्वादिति ।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42