Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 24
________________ तृतीयः प्रकाशः। . २३ यवद्वयेनैव पर्याप्तेः किमप्रयोजनैरन्यैरवयवैः । ___ तथा हि, वादिप्रतिवादिनोः स्वमतस्थापनार्थ जयपराजयपर्यंतं परस्परं प्रवर्तमानो वाग्व्यापारो विजिगीषुकथा । गुरुशिष्याणां विशिष्टविदुषां वा रागद्वेषरहितानां तत्त्वनिर्णयपर्यंतं परस्परं प्रवर्तमानो वाग्व्यापारो वीतरागकथा । तत्र विजिगीषुकथा वाद इति चोच्यते । केचिद्वीतरागकथा वाद इति कथयति तत्पारिभाषिकमेव । नहि लोके गुरुशिष्यादिवाग्व्यापारे वादव्यवहारः, विजिगीषुवाग्व्यवहार एव वादत्वप्रसिद्धेः यथा स्वामिसमंतभद्राचार्यैः सर्वे सर्वथैकांतवादिनो वादे जिता इति । ___ तस्मिंश्च वादे परार्थानुमानवाक्यस्य प्रतिज्ञा हेतुरित्यवयवद्वयमेवोपकारकं, नोदाहरणादिकं । तद्यथा, लिंगवचनात्मकेन हेतुना तावदवश्यं भवितव्यं । लिंगज्ञानाभावेऽनुमितेरेवानुदयात् । पक्षवचनरूपया प्रतिज्ञयापि च भवितव्यं, अन्यथाऽभिमतसाध्यनिश्चयाभावे साध्यसंदेहवतः श्रोतुरनुमित्यनुदयात् । तदुक्तं " एतद्वयमेवानुमानांगं," इति । अयमर्थः-एतयोः प्रतिज्ञाहेत्वोयमेवानुमानस्य परार्थानुमानस्यांगम् । वादे इति शेषः । एवकारेणावधारणपरेण नोदाहरणादिकमिति सूचितं भवति । व्युत्पन्नस्यैव हि वादाधिकारः । प्रतिज्ञाहेतुप्रयोगमात्रेणैवोदाहरणादिप्रतिपाद्यस्यार्थस्य गम्यमानस्य व्युत्पन्नेन ज्ञातुं शक्यत्वात् । गम्यमानस्याप्यभिधाने पौनरुत्तयप्रसंगात । स्यादेतत् । प्रतिज्ञाप्रयोगेऽपि पौनरुक्त्यमेव, तदभिधेयस्य पक्षस्यापि प्रस्तावादिना गम्यमानत्वात् । तथा च, “लिंगवचनलक्षणो हेतुरेक एव वादे प्रयोक्तव्यः" इति वदन् बौद्धः पशुरात्मनो दुर्विदग्धतामुद्घोषयति । हेतुमात्रप्रयोगे व्युत्पन्नस्यापि साध्यसंदेहानिवृत्तेः । तस्मादवश्यं प्रतिज्ञा प्रयोक्तव्या । तदुक्तं " साध्यसंदेहापनोदाथै गम्यमानस्यापि पक्षस्य वचनं " इति । तदेवं वादापेक्षया परार्थानुमानस्य प्रतिज्ञाहेतुरूपमवयवद्वयमेव, न न्यूनं, नाधिकमिति स्थितम् । प्रपंचः पुनरवयवविचारस्य पत्रपरीक्षायामीक्षणीयः ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42