Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२४
याचदीपिका।
.
वीतरागकथायां तु प्रतिपाद्याशयानुरोधेन प्रतिज्ञाहेतू द्वाववयवौ, प्रतिज्ञाहेतूदाहरणानि त्रयः, प्रतिज्ञाहेतूदाहरणोपनयाश्चत्वारः, प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वा पंचेति यथायोग्यं प्रयोगपरिपाटी । तदुक्तं कुमारनंदिभट्टारकैः " प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ” इति । तदेवं प्रतिज्ञादिरूपात्परोपदेशादुत्पन्नं परार्थानुमानम् । तदुक्तं
“परोपदेशसापेक्षं साधनात्साध्यवेदनं ।
श्रोतुर्यज्जायते सा हि परार्थानुमितिर्मता ॥" तथा च स्वार्थ पंरा चेति द्विविधमनुमानं साध्याविनाभावनिश्चयैकलक्षणाद्धेतोरुत्पद्यते ।
इत्थमन्यथानुपपत्त्येकलक्षणो हेतुरनुमितिप्रयोजक इति प्रथितेऽप्याहतमते तदेतदवितान्येऽन्यथाप्याहुः । तत्र तावत्ताथागताः-"पक्षधर्मत्वादित्रितयलक्षणालिंगादनुमानोत्थानं " इति वर्णयति । तथा हि " पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्वयावृत्तिरिति हेतोस्त्रीणि रूपाणि । तत्र साध्यधर्मविशिष्टो धर्मी पक्षः, यथा धूमध्वजानुमाने पर्वतः । तस्मिन् व्याप्य वर्तमानत्वं हेतोः पक्षधर्मत्वं । साध्यसजातीयधर्मा धर्मी सपक्षः । यथा तत्रैव महानसः । तस्मिन्सर्वत्रैकदेशे वा वर्तमानत्वं हेतोः सपक्षे सत्त्वम् । साध्यविरुद्धधर्मा धर्मी विपक्षः । यथा तत्रैव महाह्रदः, तस्मात्सर्वस्माद् व्यावृत्तत्वं हेतोर्विपक्षाव्यावृत्तिः । तानीमानि त्रीणि रूपाणि मिलितानि हेतोर्लक्षणम् । अन्यतमाभावे हेतोराभासत्वं स्यात्' इति । __तदसंगतं, कृत्तिकोदयादेहेतोरपक्षधर्मस्य शकटोदयादिसाध्यगमकत्वदर्शनात् । तथा हि, शकटं धर्मि मुहूर्तोते उदेष्यति कृत्तिकोदयादिति । अत्र हि, शकटः पक्षः, मुहूर्तते उदयः साध्यः, कृत्तिकोदयो हेतुः, नहि कृत्तिकोदयो हेतुःपक्षीकृते शकटे वर्तते। अतो न पक्षधर्मः। तथाप्यन्यथानुपपत्तिबलाच्छकटोदयाख्यं साध्यं गमयत्येव । तस्माद्वौद्धाभिमतं हेतोर्लक्षणमव्याप्तम् ।
नैयायिकास्तु पाञ्चरूप्यं हेतोर्लक्षणमाचक्षते । तथा हि, पक्षधर्मत्वं

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42