Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयः प्रकाशः।
२१
प्रत्यक्षेणानुभूयते । विकल्पसिद्धो यथा, सर्वज्ञः अस्ति सुनिश्चितासंभवद्वाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः । अथवा खरविषाणं नास्तीति । नास्तित्वे साध्ये खरविषाणं । सर्वज्ञो ह्यस्तित्वसिद्धेः प्राङ् न प्रत्यक्षादिप्रमाणसिद्धः । अपि तु प्रतीतिमात्रसिद्ध इति विकल्पसिद्धोऽयं धर्मी । तथा खरविषाणमपि नास्तित्वसिद्धेः प्राग विकल्पसिद्धं ।
उभयसिद्धो धर्मी यथा शब्दः परिणामी कृतकत्वादित्यत्र शब्दः । स हि वर्तमानः प्रत्यक्षगम्यः, भूतो भविष्यंश्च विकल्पगम्यः । स सर्वोऽपि धर्माति प्रमाणविकल्पसिद्धो धर्मी । प्रमाणोभयसिद्धयोः साध्यं कामचारः । विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वामति नियमः, तदुक्तं " विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये” इति । तदेवं परोपदेशानपेक्षिणः साधनाद् दृश्यमानाद्धर्मिनिष्ठतया साध्ये यद्विज्ञानं तत्स्वार्थानुमानमिति स्थितम् । तदुक्तं
" परोपदेशाभावेऽपि साधनात्साध्यबोधनं । __ यद्रष्टुर्जायते स्वार्थमनुमानं तदुच्यते ॥” इति । परोपदेशमपेक्ष्य साधनात्साध्यविज्ञानं तत्परार्थानुमानं । प्रतिज्ञाहेतुरूपपरोपदेशवशाच्छोतुरुत्पन्नं साधनात्साध्यविज्ञानं परार्थानुमानमित्यर्थः । यथा पर्वतोऽयमग्निमान् भवितुमर्हति धूमवत्त्वान्यथानुपपत्तेरिति वाक्ये केनचित्प्रयुक्ते तद्वाक्याथै पालोचयतः स्मृतव्याप्तिकस्य श्रोतुरनुमानमुपजायते । ___ परोपदेशवाक्यमेव परार्थानुमानमिति केचित् , त एवं प्रष्टव्याः, तत्कि मुख्यानुमानमथवा गौणानुमानमिति ? न तावन्मुख्यानुमानं, वाक्यस्याज्ञानरूपत्वात् । गौणानुमानं तद्वाक्यमिति त्वनुमन्यामहे, तत्कारणे तद्वयपदेशोपपत्तेरायुर्वं घृतमित्यादिवत् । तस्यैतस्य परार्थानुमानस्यांगसम्पत्तिः, स्वार्थानुमानवत्परार्थानुमानप्रयोजकस्य च वाक्यस्य द्वाववयवौ, प्रतिज्ञाहेतुश्च । ___ तत्र धर्मधर्मिसमुदायरूपस्य पक्षस्य वचनं प्रतिज्ञा । यथा पर्वतोऽयमग्निमानिति । साध्याविनाभाविसाधनवचनं हेतुः । यथा धूमवत्त्वान्य

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42