Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयः प्रकाशः।
ध्यविज्ञानमनुमानमिति वचनादिति चेन, साधनादित्यत्र निश्चयपथप्राप्ताभृमादेरिति विवक्षणात् । अनिश्चयपथप्राप्तस्य धूमादेः साधनत्वस्यैवाघटनात् । तथा चोक्तं श्लोकवार्तिके " साधनात्साध्यविज्ञानमनुमानं विदुर्बुधाः" इति । साधनाज्ञायमानाडूमादेः, साध्येऽग्न्यादौ लिंगिनि यद्विज्ञानं तदनुमानं । अज्ञायमानस्य तस्य साध्यज्ञानजनकत्वे हि सुप्तादीनामगृहीतधूमादीनामप्यग्न्यादिज्ञानोत्पत्तिप्रसंगः । तस्माज्ज्ञायमानलिंगकारणकस्य साध्यज्ञानस्यैव साध्याव्युत्पत्तिनिराकारकत्वेनानुमानत्वं । न तु लिंगपरामर्शादेरिति बुधाः प्रामाणिका विदुरिति वार्तिकार्थः ।
किं तत्साधनं यद्धेतुकं साध्यज्ञानमनुमानमिति चेदुच्यते निश्चितसाध्यान्यथानुपपत्तिकं साधनं । यस्य साध्याभावासंभवनियमरूपा व्यायविनाभावाद्यपरपर्याया साध्यान्यथानुपपत्तिस्तकांख्येन प्रमाणेन निर्णीता तत्साधनमित्यर्थः । तदुक्तं कुमारनंदिभट्टारकैः “ अन्यथानुपपत्त्येकलक्षणं लिंगमभ्यत" इति । _ किं तत्साध्यं यदविनाभावः साधनलक्षणं ? उच्यते । शक्यमभिप्रेतमप्रसिद्ध साध्यं । यत्प्रत्यक्षादिप्रमाणाबाधितत्वेन साधयितुं शक्यं, वाद्यभिमतत्वेनाभिप्रेतं, संदेहाद्याक्रांतत्वेनाप्रसिद्धं, तदेव साध्यं । अशक्यस्य साध्यत्वे वह्नयनुष्णत्वादेरपि साध्यत्वप्रसंगात् । प्रसिद्धस्य साध्यत्वे पुनरनुमानवैयर्थ्यात् । तदुक्तं न्यायविनिश्चये
" साध्यं शक्यमभिप्रेतमप्रसिद्धं ततोऽपरं ।
साध्याभासं विरुद्धादि साधनाविषयत्वतः ॥ इति ।" अयमर्थः-यच्छक्यमभिप्रेतमप्रसिद्धं तत्साध्यं । ततोऽपरं साध्याभासं । किं तत् ? विरुद्धादि । विरुद्धं प्रत्यक्षादिबाधितं । आदिशब्दादनभिप्रेतं प्रसिद्धं चेति । कुत एतत् ? साधनाविषयत्वतः साधनेन गोचरीकर्तुमशक्यत्वात् । इत्यकलंकदेवानामभिप्रायलेशः, तदभिप्रायसाकल्यं तु स्याद्वादविद्यापतिर्विवेद । साधनसाध्यद्वयमधिकृत्य श्लोकवार्तिकं च

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42