Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 19
________________ न्यायदीपिका। व्याप्तिविषयीकरणसमर्थे किं तर्काख्येन पृथक्प्रमाणेनेति केचित्, तेऽपि न्यायमार्गानभिज्ञाः " सहकारिसहस्रसमवधानेऽप्यविषये प्रवृत्तिर्न घटते" इत्युक्तत्वात् । तस्मात्प्रत्यक्षेण व्याप्तिग्रहणमसमंजसं। इदं समंजसं-स्मरणं प्रत्यभिज्ञानं भूयोदर्शनरूपं प्रत्यक्षं च मिलित्वा तादृशमेकं ज्ञानं जनयति यद्वयाप्तिग्रहणसमर्थमिति, तर्कश्च स एव । अनुमानादिकं तु व्याप्तिग्रहणं प्रत्यसंभाव्यमेव । बौद्धास्तु प्रत्यक्षपृष्ठभावी विकल्पो व्याप्तिं गृह्णातीति मन्यते । त एवं प्रष्टव्याः, स हि विकल्पः किमप्रमाणमुत प्रमाणमिति । यद्यप्रमाणं कथं नाम तद्गृहीतायां व्याप्तौ समाश्वासः ? अथ प्रमाणं किं प्रत्यक्षमथवाऽनुमानं ? न तावत्प्रत्यक्षमस्पष्टप्रतिभासत्वात् , नाप्यनुमानं लिंगदर्शनाद्यनपेक्षत्वात् । ताभ्यामन्यदेव किंचित्प्रमाणमिति चेदागतस्तर्हि तर्कः । तदेवं तर्काख्यं प्रमाणं निर्णीतं । इदानीमनुमानमनुवर्ण्यते । ____ साधनात्साध्यविज्ञानमनुमानं । इहानुमानमिति लक्ष्यनिर्देशः, साधनात्साध्यविज्ञानमिति लक्षणकथनं । साधनाद्भुमादेलिंगात्साध्येऽग्न्यादौ लिंगिनि यद्विज्ञानं जायते तदनुमानम् । तस्यैवाग्न्याद्यव्युत्पत्तिविच्छित्तिकरणत्वात् । न पुनः साधनज्ञानमनुमानं, तस्य साधनाव्युत्पत्तिविच्छेदमात्रोपक्षीणत्वेन साध्याज्ञाननिवर्तकत्वायोगात् । __ ततो यदुक्तं नैयायिकैः " लिंगपरामर्शोऽनुमानं " इति अनुमानलक्षणं तदविनीतविलसितमिति निवेदितं भवति । वयं त्वनुमानप्रमाणस्वरूपलाभेव्याप्तिस्मरणसहकृतो लिंगपरामर्शः करणमिति मन्यामहे । स्मृत्यादिस्वरूपलाभे अनुभवादिवत् । तथा हि, धारणाख्योऽनुभवः स्मृतौ हेतुः । तादात्विकानुभवस्मृती प्रत्यभिज्ञाने, स्मृतिप्रत्यभिज्ञानानुभवाः साध्यसाधनविषयास्तकें । तद्वलिंगज्ञानं व्याप्तिस्मरणादिसहकृतमनुमानोत्पत्तौ निबंधनमित्येतत्सुसंगतमेव । ननु भवतां मते साधनमेवानुमाने हेतुर्न तु साधनज्ञानं, साधनात्सा

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42