Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 17
________________ न्यायदीपिका। सत्, अनुभवस्य वर्तमानकालवर्तिविवर्तमात्रप्रकाशकत्वं, स्मृतेश्चातीतविवर्तद्योतकत्वमिति तावद्वस्तुगतिः । कथं नाम तयोरतीतवर्तमानकालसंकलितैक्यसादृश्यादिविषयावगाहित्वं । तस्मादस्ति स्मृत्यनुभवातिरिक्तं तदनंतरभावि संकलनज्ञानं । तदेव प्रत्यभिज्ञानं । ___ अपरे त्वेकत्वप्रत्यभिज्ञानमभ्युपगम्यापि तस्य प्रत्यक्षंतर्भाव कल्पयंति । तद्यथा, यदिद्रियान्वयव्यतिरेकानुविधायि तत्प्रत्यक्षमिति तावत्प्रसिद्धं । इंद्रियान्वयव्यतिरेकानुविधायि चेदं प्रत्यभिज्ञानं तस्मात् प्रत्यक्षमिति । तन्न, इंद्रियाणां वर्तमानदशापरामर्शमात्रोपक्षीणत्वेन वर्तमानातीतदशाव्यापकैक्यावगाहित्वाघटनात् । न ह्यविषयप्रवृत्तिरिंद्रयाणां युक्तिमती, चक्षुषा रसादेरपि प्रतीतिप्रसंगात् । ननु सत्यमेतदिद्रियाणां वर्तमानदशावगाहित्वमेवेति, तथापि तानि सहकारिसमवधानसामर्थ्याद्दशाद्वयव्यापिन्येकत्वेपि प्रतीति जनयंतु, अंजनसंस्कृतं चक्षुखि व्यवहितेऽर्थे । नहि चक्षुषो व्यवहितार्थप्रत्यायनसामर्थ्यमस्ति, अंजनसस्कारवशात्तु तथात्वमुपलब्धं । तद्वदेव स्मरणादिसहकृतानींद्रियाण्येव दशाद्वयव्यापकमेकत्वं प्रत्याययिष्यंतीति किं प्रमाणांतरकल्पनाप्रयासेनेति, तदप्यसत्। सहकारिसहस्रसमवधानेऽप्यविषये प्रवृत्तेरयोगात् । चक्षुषो हि अंजनसंस्कारादिः सहकारी स्वविषये रूपादावेव प्रवर्तको न त्वविषये रसादौ । अविषयश्च पूर्वोत्तरावस्थाव्यापकमेकत्वमिंद्रियाणां । तस्मात्तत्प्रत्यायनाय प्रमाणांतरमन्वेषणीयमेव । सर्वत्रापि विषयविशेषद्वारेण प्रमाणभेदव्यवस्थापनात् । __किंचास्पष्टैवेयं तदेवेदमिति प्रतिप्रत्तिः, तस्मादपि न तस्याः प्रत्यक्षेऽतर्भाव इति । अवश्यं चैतदेवं विज्ञेयं चक्षुरादरैक्यप्रतीतिजननसामर्थ्य नास्तीति । अन्यथा लिंगदर्शनव्याप्तिस्मरणादिसहकृतचक्षुरादिकमेव वयादिलिंगिज्ञानं जनयेदिति नानुमानमपि पृथक् प्रमाणं स्यात् । स्वविषयमात्र एव चरितार्थत्वाचक्षुरादिकमिंद्रियं न लिंगिनि प्रवर्तितुं प्रगल्भमिति चेत्

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42