Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयः प्रकाशः। कालांतरेऽपि तस्मिन् विषये ज्ञान-मुत्पादयति । तदेतद्धारणाविषयं समुत्पन्नं तत्तोल्लेखि ज्ञानं स्मृतिरिति सिद्धं ।
नन्वेवं धारणागृहीत एव स्मरणस्योत्पत्तौ गृहीतग्राहित्वादप्रामाण्यं प्रसज्यत इति चेन, विषयविशेषसद्भावादीहादिवत् । यथा हि-अवग्रहादिगृहीतविषयाणामीहादीनां विषयविशेषसद्भावात्स्वविषयसमारोपव्यवच्छेदकत्वेन प्रामाण्यं तथा स्मरणस्यापि धारणागृहीतविषयप्रवृत्तावपि प्रामाण्यमेव । धारणाया हीदंतावच्छिन्नो विषयः, स्मरणस्य तु तत्तावच्छिन्नः । तथा च स्मरणं स्वविषयास्मरणादिसमारोपव्यवच्छेदकत्वात्प्रमाणमेव । तदुक्तं प्रमेयकमलमार्तडे "विस्मरणसंशयविपर्यासलक्षणः समारोपोऽस्ति तन्निराकरणाचास्याः स्मृतेः प्रामाण्यं " इति । यदि चानुभूते प्रवृत्तमित्येतावतां स्मरणमप्रमाणं स्यात्तर्हि-अनुमितेऽनौ पश्चात्प्रवृत्तं प्रत्यक्षमप्यप्रमाणं स्यात् । - अविसंवादित्वाच्च प्रमाणं स्मृतिः प्रत्यक्षादिवत् । न हि स्मृत्वा निक्षेपादिषु प्रवर्तमानस्य विषयविसंवादोस्ति । यत्र त्वस्ति विसंवादस्तत्र स्मरणस्याभासत्वं प्रत्यक्षाभासवत् । तदेवं स्मरणाख्यं पृथक् प्रमाणमस्तीति सिद्ध ।
अनुभवस्मृतिहेतुकं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानं । इदंतोल्लेखि ज्ञानमनुभवः । तत्तोल्लेखि ज्ञानं स्मरणं । तदुभयसमुत्थं पूर्वोत्तरैक्यसादृश्यवैलक्षण्यादिविषयं यत्संकलनरूपं ज्ञानं जायते तत्प्रत्यभिज्ञनामिति ज्ञातव्यं । यथा स एवायं जिनदत्तो, गोसदृशो गवयो, गोविलक्षणो महिष इत्यादि । ___ अत्र हि पूर्वस्मिन्नुदाहरणे जिनदत्तस्य पूर्वोत्तरदशाद्वयव्यापकमेकत्वं प्रत्यभिज्ञानस्य विषयः, तदिदमेकत्वप्रत्यभिज्ञानं । द्वितीये तु पूर्वानुभूत. गोप्रतियोगिकं गवयनिष्ठं सादृश्यं । तदिदं सादृश्यप्रत्यभिज्ञानं । तृतीये तु पुनःप्रागनुभूतगोप्रतियोगिकं महिषनिष्ठं वैसादृश्यं । तदिदं वैसादृश्यप्रत्यभिज्ञानं । एवमन्येऽपि प्रत्यभिज्ञानभेदा यथाप्रतीति स्वयमुत्प्रेक्ष्याः । अत्र सर्वत्रापि अनुभवस्मृतिसापेक्षात्वात्तद्धेतुकत्वं ।
केचिदाहुः “ अनुभवस्मृतिव्यतिरिक्त प्रत्यभिज्ञानं नास्ति' इति तद

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42