Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
न्यायदीपिका।
अथ तृतीयः प्रकाशः। _ अथ परोक्षप्रमाणनिरूपणं प्रक्रम्यते । अविशदप्रतिभासं परोक्षं । अत्र परोक्षं लक्ष्यं, अविशदप्रतिभासत्वं लक्षणं । यस्य ज्ञानस्य प्रतिभासो विशदो न भवति तत्परोक्षप्रमाणमित्यर्थः । वैशद्यमुक्तलक्षणं । ततोऽन्यदवैशद्यमस्पष्टत्वं । तदप्यनुभवसिद्धमेव ।
सामान्यमात्रविषयत्वं परोक्षप्रमाणमिति केचित् , तन्न प्रत्यक्षस्येव परोक्षस्यापि सामान्यविशेषात्मकवस्तुविषयत्वेन तस्य लक्षणस्यासंभवित्वात् । तथा हि । घटादिविषयेषु प्रवर्तमानं प्रत्यक्षप्रमाणं तद्गतं सामान्याकारं घटत्वादिकं व्यावृत्ताकारं च व्यक्तिरूपं युगपदेव प्रकाशयदुपलब्धं तथा परोक्षमपि । इति न सामान्यमात्रविषयत्वं परोक्षलक्षणं । अपि त्ववैशद्यमेव । __सामान्यविशेषयोरेकतरविषयत्वे तु प्रमाणत्वस्यैवानुपपत्तिः, सर्वप्रमाणानां सामान्यविशेषात्मकवस्तुविषयत्वाभ्यनुज्ञानात् । तदुक्तं “ सामान्यविशेषात्मा तदर्थो विषयः ” इति । तस्मात्सुष्ठुक्तं " अविशदावभासनं परोक्षम् " इति । ___ तत्पंचविधं-स्मृतिः प्रत्यभिज्ञानं तर्कोऽनुमानमागमश्चेति । पंचविधस्याप्यस्य परोक्षस्य प्रत्ययांतरसापेक्षत्वेनैवोत्पत्तिः । तद्यथा, स्मरणस्य प्राक्तनानुभवापेक्षा, प्रत्यभिज्ञानस्य स्मरणानुभवापेक्षा, तर्कस्यानुभवस्मरणप्रत्यभिज्ञानापेक्षा, अनुमानस्य च लिंगदर्शनाद्यपेक्षा, आगमस्य शब्दश्रवणसंकेतग्रहणाद्यपेक्षा । प्रत्यक्षं तु न तथा स्वातंत्र्येणैवोत्पत्तेः । स्मरणादीनां प्रत्ययांतरापेक्षा तु तत्र तत्र निवेदयिष्यते । ___ तत्र का नाम स्मृतिः । तदित्याकारा प्रागनुभूतवस्तुविषया स्मृतिः । यथा स देवदत्त इति । अत्र हि प्रागनुभूत एव देवदत्तस्तत्तया प्रतीयते । तस्मादेषा प्रतीतिस्तत्तोल्लेखिन्यनुभूतविषया च, अननुभूते विषये तदनुत्पत्तेः । तन्मूलं चानुभवो धारणारूप एव । अवग्रहाद्यनुभूतेऽपि धारणाया अभावे रतिजननायोगात् । धारणा हि तथा आत्मानं संस्करोति यथासावात्मा

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42