Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 18
________________ तृतीयः प्रकाशः। प्रकृतेन किमपराद्धं ? ततः स्थितं प्रत्यभिज्ञानाख्यं पृथक्प्रमाणमस्तीति । सादृश्यप्रत्यभिज्ञानमुपमानाख्यं पृथक् प्रमाणमिति केचित् कथयति तदसत्, स्मृत्यनुभवपूर्वकसंकलनज्ञानत्वेन प्रत्यभिज्ञानत्वानतिवृत्तेः । अन्यथा गोविलक्षणो महिष इत्यादिविसदृशवप्रत्ययस्य इदमस्माइरमित्यादेश्च प्रत्ययस्य सप्रतियोगिकस्य पृथक्प्रमाणत्वं स्यात्। ततो वैसादृश्यादिप्रत्ययवत् सादृश्यप्रत्ययस्यापि प्रत्यभिज्ञानलक्षणाक्रांतत्वेन प्रत्यभिज्ञानत्वमेवेति प्रामाणिकपद्धतिः। अस्तु प्रत्यभिज्ञानं, कस्तर्हि तर्कः ? व्याप्तिज्ञानं तर्कः । साध्यसाधनयोर्गम्यगमकभावप्रयोजको व्यभिचारगंधासहिष्णुः संबंधविशेषो व्याप्तिरविनाभाव इति च व्यपदिश्यते । तत्सामर्थ्यात्खल्वग्न्यादि धूमादिरेव गमयति नतु घटादिस्तदभावात् । तस्याश्चाविनाभावापरनाम्न्या व्याप्तेः प्रमितौ यत्साधकतम तदिदं तर्काख्यं पृथक् प्रमाणमित्यर्थः । तदुक्तं श्लोकवार्तिकभाष्ये “ साध्यसाधनसंबंध्यज्ञाननिवृत्तरूपे हि फले साधकतमस्तर्कः " इति । ऊह इति तर्कस्यैव व्यपदेशांतरं। स च तर्कस्तां व्याप्ति सकलदेश. कालोपसंहारेण विषयीकरोति । किमस्योदाहरणं ? उच्यते, यत्र यत्र धूमवत्त्वं तत्र तत्राग्निमत्त्वमिति । अत्र हि धूमे सति भूयोग्न्युपलंभे ' सर्वत्र सर्वदा धूमोऽग्नि न व्यभिचरति ' एवं सर्वोपसंहारेणाविनाभाविज्ञानं पश्चादुत्पन्नं तर्काख्यं प्रत्यक्षादेः पृथगेव । प्रत्यक्षस्य सन्निहितदेश एव धूमाग्निसंबंधप्रकाशनान्न व्याप्तिप्रकाशकत्वं । सर्वोपसंहारवती हि व्याप्तिः । - ननु यद्यपि प्रत्यक्षमात्रं व्यातिविषयीकरणे शक्तं न भवति तथापि विशिष्टं प्रत्यक्षं तत्र शक्तमेव । तथा हि महानसादौ तावत्प्रथमं धूमाग्न्योदर्शनमेकं प्रत्यक्षं । तदनंतरं भूयो भूयः प्रत्यक्षाणि प्रवर्तते । तानि च प्रत्यक्षाणि न सर्वाणि व्याप्तिविषयीकरणे समर्थानि, अपि तु पूर्वपूर्वानुभूतधूमाग्निस्मरणतत्सजातीयत्वानुसंधानरूपप्रत्यभिज्ञानसहकृतः कोपि प्रत्यक्षविशेषो व्याप्तिं गृह्णाति । तथा च, स्मरणप्रत्यभिज्ञानसहकृते प्रत्यक्षविशेषे

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42