Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 10
________________ द्वितीयः प्रकाशः । सविकल्पकविषयभूतस्य सामान्यस्य परमार्थत्वमेवाबाधितत्वात् । प्रत्युत सौगताभिमत एव स्वलक्षणे विवादः । तस्मान्न निर्विकल्पकरूपत्वं प्रत्यक्षस्य सन्निकर्षस्य च योगाभ्युपगत्वस्याचेतनत्वात्कुतः प्रमितिकरणत्वं कुतस्तरां प्रमाणत्वं कुतस्तमां प्रत्यक्षत्वं ? किं च रूपप्रमितेरसन्निकृष्टमेव चक्षुर्जनकं, अप्राप्यकारित्वात्तस्य । ततः सन्निकर्षाभावेपि साक्षात्कारिप्रमोत्पत्तेर्न सन्निकर्षरूपतैव प्रत्यक्षस्य । न चाप्राप्यकारित्वं चक्षुषोऽप्रसिद्धं प्रत्यक्षतस्तथैव प्रतीतेः । ननु प्रत्यक्षा-गम्यामपि चक्षुषो विषयप्राप्तिमनुमानेन साधयिष्यामः परमाणुत्रत् । यथा प्रत्यक्षासिद्धोपि परमाणुः कार्यान्यथानुपपत्त्यानुमानेन साध्यते, तथा चक्षुः प्राप्तार्थप्रकाशकं बहिरिंद्रियत्वात्त्वगिंद्रिय वदित्यनुमानात्प्राप्तिसिद्धिः । प्राप्तिरेव हि सन्निकर्षः । ततो न सन्निकर्षस्याव्याप्तिरिति चेन्न, अस्यानुमानाभासत्वात् । : तद्यथा - चक्षुरित्यत्र कः पक्षोऽभिप्रेतः, किं लौकिकं चक्षुरुतालौकिकं ? -आधे - हेतोः कालात्ययापदिष्टत्वं गोलकाक्षस्य चक्षुषो विषयप्राप्तेः प्रत्यक्षबाधितत्वात् । द्वितीये त्वाश्रयासिद्धः, अलौकिकस्य चक्षुषोऽद्याप्यसिद्धेः । शाखासुधादीधितिसमानकालग्रहणाद्यन्यथानुपपत्तेः चक्षुरप्राप्यकारीति निश्चीयते । तदेवं सन्निकर्षाभावेपि चक्षुषा रूपप्रतीतिर्जायते इति सन्निकर्षोsव्यापकत्वात् प्रत्यक्षस्य स्वरूपं न भवतीति स्थितं । अस्य च प्रमेयस्य प्रपंच: प्रमेयकमलमार्तंडे सुलभः । संग्रह ग्रंथत्वात्तु नेह प्रतन्यते । एवं च न सौगताभिमतं निर्विकल्पकं प्रत्यक्षं । नापि योगाभिमत इंद्रियार्थसन्निकर्षः । किं तर्हि ? विशदप्रतिभासं ज्ञानमेव प्रत्यक्षं सिद्धं । तत्प्रत्यक्षं द्विविधं सांव्यवहारिकं पारमार्थिकं चेति । तत्र देशतो विशदं सांव्यवहारिकं प्रत्यक्षं । यज्ज्ञानं देशतो विशदमीषन्निर्मलं तत्सांव्यवहारिकप्रत्यक्षमित्यर्थः । तच्चतुर्विधं - अवग्रहः, ईहा, अवायो, धारणा चेति ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42