Book Title: Nyayadipika Author(s): Dharmbhushan Yati Publisher: Jain Sahitya Prasarak Karyalay View full book textPage 8
________________ द्वितीयः प्रकाशः। "प्रमाकरणं प्रमाणं" इति नैयायिकाः । तदपि प्रमादकृतं लक्षण. मीश्वराख्ये तदंगीकृत एवं प्रमाणे अश्याप्तेः । अधिकरणं हि महेश्वरः प्रमायाः न तु करणं । न चायमनुक्तोपालंभः " तन्मे प्रमाणं शिवः " इति यौगाप्रेसरेणोदयनेनोक्तत्वाच । तत्परिहाराय केचन बालिशाः साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तं प्रमाणमिति वर्णयति । तथापि साधनाश्रयान्यतरपालोचनायां साधनमाश्रयो वेति फलति । तथा च परस्पराव्याप्तिर्लक्षणस्य । __ अन्यान्यपि पराभिमतानि प्रमाणस्य सामान्यलक्षणान्यलक्षणत्वादुपेक्ष्यते । तस्मात्स्वपरावभासनसमर्थ सविकल्पमगृहीतग्राहकं सम्यग्ज्ञानमेवाज्ञानमर्थे निवर्तयत्प्रमाणमित्यार्हतं मतं । इति प्रथमः प्रकाशः। अथ द्वितीयः प्रकाशः। अथ प्रमाणविशेषस्वरूपप्रकाशनाय प्रस्तूयते--प्रमाणं द्विविधं प्रत्यक्ष परोक्षं चेति । तत्र विशदप्रतिभासं नाम प्रत्यक्षं । इह प्रत्यक्ष लक्ष्यं, विशदप्रतिभासत्वं लक्षणं । यस्य प्रमाणभूतस्य ज्ञानस्य प्रतिभासो विशदस्त प्रत्यक्षमित्यर्थः । किमिदं विशदप्रतिभासत्वं नाम ? उच्यते,-ज्ञानावरणस्य क्षयाद्विशिष्टक्षयोपशमाद्वा शब्दानुमानाद्यसंभवि यन्नैर्मल्यमनुभवसिद्धं । दृश्यते खल्वनिरस्तीत्याप्तवचनाद्भूमादिलिंगाच्चोत्पन्नाज्ञानादयमग्निरित्युत्पन्नस्यदियिकस्य ज्ञानस्य विशेषः । स एव नैर्मल्यं वैशा स्पष्टत्वमित्यादिभिः शब्दैरभिधीयते । तदुक्तं भगवद्भिरकलंकदेवैन्यायविनिश्चये-" प्रत्यक्षलक्षणं प्राहुःस्पष्टं साकारमंजसा " इति । विवृतं च स्याद्वाद विद्यापतिना “ निर्मलप्रतिभासत्वमेव स्पष्टत्वं । स्वानुभवप्रसिद्धं चैतत्सर्वस्यापि परीक्षकस्येति नातीव निर्बाध्यते” इति । तस्मात् सुष्ठुक्तं विशदप्रतिभासात्मकं ज्ञानं प्रत्यक्षमिति ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42