Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 7
________________ न्यायदीपिका। मलशिशिरमंदमरुत्प्रचारप्रभृतिभिरवधारयति ।-प्रमाणं-प्राक्तनं जलज्ञानं, कमलपरिमलाद्यन्यथानुपपत्तेरिति । उत्पत्तिवत्प्रामाण्यस्य ज्ञप्तिरपि परत एवेति यौगाः। तत्र प्रामाण्यस्योत्पत्तिः परत इति युक्तं । ज्ञप्तिः पुनरभ्यस्तविषये स्वत एवेति स्थितत्वाज्ञप्तिरपि परत एवेत्यवधारणानुपपत्तिः । ततो व्यवस्थितमेतत्प्रामाण्यमुत्पत्तौ परत एव, ज्ञप्ती तु कदाचित् स्वतः कदाचित् परत इति । तदुक्तं प्रमाणपरीक्षायां ज्ञप्ति प्रति प्रमाणादिष्टसंसिद्धिरन्यथातिप्रसंगतः। प्रामाण्यं तु स्वतः सिद्धमभ्यासात्परतोऽन्यथा ॥ १॥ इति ।। तदेवं सुव्यवस्थितेऽपि प्रमाणस्वरूपे दुरभिनिवेशवशंगतैः सौगतादिभिरपि कल्पितं प्रमाणलक्षणं सुलक्षणमिति येषां भ्रमस्ताननुगृह्णीमः । तथा हि“ अविसंवादि ज्ञानं प्रमाणं" इति बौद्धाः । तदिदमविसंवादित्वमसंभवित्वादलक्षणं । बौद्धेन हि प्रत्यक्षमनुमानमिति प्रमाणद्वयमेवानुमन्यते । तदुक्तं न्यायविंदौ “द्विविधं सम्यग्ज्ञानं प्रत्यक्षमनुमानं च" इति । तत्र न तावत्प्रत्यक्षस्याविसंवादित्वं, तस्य निर्विकल्पकत्वेन स्वविषयानिश्चायकस्य समारोपविरोधित्वाभावात् । नाप्यनुमानस्य, तन्मतानुसारेण तस्याप्यपरमार्थभूतसामान्यगोचरत्वादिति। “ अनधिगततथाभूतार्थनिश्चायकं प्रमाणं” इति भाट्टाः । तदप्यव्याप्तं, तैरेव प्रमाणत्वेनाभिमतेषु धारावाहिकज्ञानेष्वनधिगततथाभूतार्थनिश्चायकत्वाभावात् । उत्तरोत्तरक्षणविशेषविशिष्टार्थावभासकत्वेनते षामनधिगतार्थनिश्चायकत्वं नाशंकनीयं, क्षणानामतिसूक्ष्माणामालक्षयितुमशक्यत्वात्। “अनुभूतिः प्रमाणं " इति प्राभाकराः । तदप्यसंगतं, अनुभूतिशब्दस्य भावसाधनत्वे करणलक्षणप्रमाणाव्याप्तेः, करणसाधनत्वे तु भावलक्षणप्रमाणाव्यातेः, करणभावयोरुभयोरपि तन्मते प्रामाण्याभ्युपगमात् । तदुक्तं शालिकानाथेन " यदा भावसाधनं तदा संविदेव प्रमाणं करणसाधनत्वे त्वात्मनः सन्निकर्षः " इति ।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42