Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 12
________________ द्वितीयः प्रकाशः। च । तत्र कतिपयविषयं विकलं । तदपि द्विविधमवधिज्ञानं मनःपर्ययज्ञानं चेति । तत्रावधिज्ञानावरणक्षयोपशमाद्वी-तरायक्षयोपशमसहकृताज्जातं रूपिद्रव्यमात्रविषयमवधिज्ञानं । मनःपर्ययज्ञानावरणवीर्यातरायक्षयोपशमसमुत्थं परमनोगतार्थविषयं मनःपर्ययज्ञानं । मतिज्ञानस्येवावधिमनःपर्यययोरवांतरभेदास्तत्त्वार्थवार्तिकराजवार्तिकश्लोकवार्तिकभाष्याभ्यामवगंतव्याः । __ सर्वद्रव्यपर्यायविषयं सकलं । तच्च घातिसंघातनिवशेषघातनात्समुन्मीलितं केवलज्ञानमेव " सर्वद्रव्यपर्यायेषु केवलस्य " इत्याज्ञापितत्वात् । तदेवमवधिमनःपर्ययकेवलज्ञानत्रयं सर्वतो वैशद्यात्पारमार्थिकं प्रत्यक्षं । सर्वतो वैशा चात्ममात्रसापेक्षत्वात् । नन्वस्तु केवलस्य पारमार्थिकत्वमवधिमनःपर्यययोस्तु न युक्तं विकलत्वादिति चेन्न साकल्यवैकल्ययोस्त्र विषयौपाधिकत्वात् । तथाहि, सर्वद्रव्यपर्यायविषयमिति केवलं सकलं । अवधिमनःपर्ययौ तु कतिपयविषयत्वाद्विकलौ । नैतावता तयोः पारमार्थिकत्वच्युतिः, केवलवत्तयोरपि वैशचं स्वविषये साकल्येन समस्तीति तावपि पारमार्थिकावेव । कश्चिदाह " अक्षं नाम चक्षुरादिकमिंद्रियं तत्प्रतीत्य यदुत्पद्यते तदेव प्रत्यक्षमुचितं नान्यत्" इति तदप्यसत् । आत्ममात्रसापेक्षाणामवधिमनःपर्ययकेवलानामिंद्रियनिरपेक्षाणामपि प्रत्यक्षत्वाविरोधात् । स्पष्टत्वमेव हि प्रत्यक्षत्वप्रयोजकं नेंद्रियजन्यत्वं । अत एव हि मतिश्रुतावधिमनःपर्ययकेवलानां ज्ञानत्वेन प्रतिपन्नानां मध्ये “ आये परोक्षं " " प्रत्यक्षमन्यत्" इत्याद्ययोर्मतिश्रुतयोः परोक्षत्वकथनमन्येषां त्ववधिमनःपर्ययकेवलानां प्रत्यक्षत्ववाचोयुक्तिः । कथं पुनरेतेषां प्रत्यक्षशब्दवाच्यत्वमिति चेत् रूढित इति ब्रूमः । अथवा अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा तन्मात्रापेक्षोत्पत्तिकं प्रत्यक्षमिति किमनुपपन्नं ? तर्हि इंद्रियजन्यमप्रत्यक्षं प्राप्तमिति चेत् हंत विस्मरणशीलत्वं वत्सस्य । अवाचामः खल्वौपचारिकं प्रत्यक्षत्वमक्षज

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42