Book Title: Nyayadipika Author(s): Dharmbhushan Yati Publisher: Jain Sahitya Prasarak Karyalay View full book textPage 9
________________ न्यायदीपिका। “ कल्पनापोढमभ्रांतं प्रत्यक्षं " इति ताथागताः । अत्र हि कल्पनापोढपदेन सविकल्पकस्य व्यावृत्तिः, अभ्रांतमिति पदेन त्वाभासस्य । तथा च, समीचीनं निर्विकल्पकं प्रत्यक्षमित्युक्तं भवति । तदेतद्बालचेष्टितं । निर्विकल्पकस्य प्रामाण्यमेव दुर्लभं, समारोपांविरोधित्वात् । कुतः प्रत्यक्षत्वं व्यवसायात्मकस्यैव प्रामाण्यव्यवस्थापनात् । - ननु · निर्विकल्पकमेव प्रत्यक्षप्रमाणमर्थजत्वात् । तदेव हि परमार्थ सत् स्वलक्षणजन्यं, न तु सविकल्पकं, तस्यापरमार्थभूतसामान्यविषयत्वेनार्थजत्वाभावात् ' इति चेन्न, अर्थस्यालोकवज्ञानकारणत्वानुपपत्तेः। .. तद्यथा-अन्वयव्यतिरेकगम्यो हि कार्यकारणभावः । तत्रालोकस्तावन्न ज्ञानकारणं तदभावेपि नक्तंचराणां मार्जारादीनां ज्ञानोत्पत्तेः, तद्भावेऽपि घुकादीनां तदनुत्पत्तेः । तद्वदर्थोपि न ज्ञानकारणं, तदभावेपि केशमशकादिज्ञानोत्पत्तेः । तथा च, कुतोर्थजत्वं ज्ञानस्य ? तदुक्तं परीक्षामुखे " नार्थालोको कारणं " इति । प्रामाण्यस्य चार्थाव्यभिचार एव निबंधनं, न त्वर्थजन्यत्वं, स्वसंवेदनस्य विषयाजन्यत्वेपि प्रामाण्याभ्युपगमात् । न हि किंचित्स्वस्मादेव जायते । ___ नन्वतजन्यस्यान्यस्य कथं तत्प्रकाशकत्वमिति चेत्,-घटाद्यजन्यस्यापि प्रदीपस्य तत्प्रकाशकत्वं दृष्ट्वा संतोष्टव्यमायुष्मता । अथ कथमयं विषयं प्रति नियमः ? यदुक्तं घटज्ञानस्य घट एव विषयो, न पर इति । अर्थजत्वं हि विषयं प्रति नियमकारणं, तजन्यत्वात् । यद्विषयमेव चैतदिति । तत्तु भवता नाभ्युपगम्यते । इति चेत् , योग्यतैव विषयं प्रति नियमकारणमिति ब्रूमः । का नाम योग्यतेति, उच्यते--स्वावरणक्षयोपशमः । तदुक्तं " स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति " इति । एतेन तदाकारत्वात्तत्प्रकाशकत्वमित्यपि प्रत्युक्तं, अतदाकारस्यापि प्रदीपादेस्तत्प्रकाशकत्वदर्शनात् । ततस्तदाकारवत्तजन्यत्वमप्रयोजकं प्रामाण्ये ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42