Book Title: Nyayadipika Author(s): Dharmbhushan Yati Publisher: Jain Sahitya Prasarak Karyalay View full book textPage 6
________________ प्रथमः प्रकाशः। तस्योत्पत्तिः कथं ? स्वत एवेति मीमांसकाः । प्रामाण्यस्य स्वत उत्पत्तिरिति ज्ञानसामान्यसामग्रीमात्रजन्यत्वमित्यर्थः । तदुक्तं, “ ज्ञानोत्पादकहेत्वनतिरिक्तजन्यत्वमुत्पत्तौ स्वतस्त्वं " इति । न ते मीमांसकाः ज्ञानसामान्यसामग्न्याः संशयादावपि ज्ञानविशेषे सत्त्वात् । वयं तु ब्रूमहे-ज्ञानसामान्यसामग्न्याः साम्येऽपि संशयादिरप्र. माणं, सम्यग्ज्ञानं प्रमाणमिति विभागस्तावदनिबंधनो न भवति । ततः संशयादौ यथा हेत्वंतरमप्रामाण्ये दोषादिकमंगीक्रियते तथा प्रमाणेऽपि प्रामाण्यनिबंधनमन्यदवश्यमभ्युपगंतव्यं, अन्यथा प्रमाणाप्रमाणविभागानुपपत्तेः । एवमप्यप्रामाण्यं परतः प्रामाण्यं तु स्वत इति न वक्तव्यं, विपर्ययेऽपि समानत्वात् । शक्यं हि वक्तुमप्रामाण्यं स्वतः प्रामाण्यं तु परत इति । तस्मादप्रामाण्यवत्प्रामाण्यमपि परत एवोत्पद्यते । न हि पटसामान्यसामग्री रक्तपटे हेतुस्तद्वन्न ज्ञानसामान्यसामग्री प्रमाणज्ञाने हेतुः, भिन्नकार्ययोर्मिनकारणप्रभवत्वावश्यंभावात् । कथं तस्य ज्ञप्तिः ? अभ्यस्ते विषये स्वतः, अनभ्यस्ते तु परतः । कोऽयमभ्यस्तो विषयः को वाऽनभ्यस्तः ? उच्यते ।-परिचितस्वग्रामतटाक जलादिरभ्यस्तः, तद्वयतिरिक्तोऽनभ्यस्तः । किमिदं स्वत इति किं नाम परत इति ? ज्ञानज्ञापकादेव प्रमाणस्य ज्ञप्तिः स्वत इति । ततोऽतिरिक्ताद् ज्ञप्तिः परत इति । तत्र तावदभ्यस्तविषये जलमिदमिति ज्ञाने जाते ज्ञानस्वरूपज्ञप्तिसमय एव तद्गतं प्रामाण्यमपि ज्ञायत एव, अन्यथोत्तरक्षण एव निश्शंकप्रवृत्तेरयोगात् । अस्ति हि जलज्ञानोत्तरक्षण एव निश्शंका प्रवृत्तिः । अनभ्यस्ते तु विषये जलज्ञाने जाते जलज्ञानं मम जातमिति ज्ञानस्वरूपनिर्णयेऽपि प्रामाण्यनिर्णयोऽन्यत एव । अन्यथोत्तरकाले संदेहानुपपत्तेः । अस्ति हि संदेहो जलज्ञानं मम जातं तत्कि जलमुत मरीचिकेति । ततः कमलपरिPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42