Book Title: Nyayadipika Author(s): Dharmbhushan Yati Publisher: Jain Sahitya Prasarak Karyalay View full book textPage 3
________________ न्यायदीपिका। द्विविधं लक्षणमात्मभूतमनात्मभूतं चेति । तत्र यद्वस्तुस्वरूपानुप्रविष्टं तदात्मभूतं । यथाग्नेरौष्ण्यं । औष्ण्यं ह्यग्नेः स्वरूपं तदग्निमबादिभ्यो व्यावर्तयति । तद्विपरीतमनात्मभूतं यथा-दंडः पुरुषस्य । दंडिनमानयेत्युक्ते हि दंडः पुरुषाननुप्रविष्ट एव पुरुषं व्यावर्तयति । तद्भाष्यं “तत्रात्मभूतमग्नेरौष्ण्यमनात्मभूतं देवदत्तस्य दंडः' इति । असाधारणधर्मवचनं लक्षणमिति केचित् । तदनुपपन्नं, लक्ष्यधर्मिवचनस्य लक्षणधर्मवचनेन सामानाधिकरण्याभावप्रसंगात् । दंडादेरतद्धर्मस्यापि लक्षणत्वाच्च । किं च अव्याप्ताभिधानस्य लक्षणाभासस्यापि तथात्वात् तथा हि-त्रयो लक्षणाभासभेदाः। अव्याप्तमतिव्याप्तमसंभवि चेति । तत्र लक्ष्यैकदेशवृत्त्यव्याप्तं, यथा--गोः शावलेयत्वं । लक्ष्यालक्ष्यवृत्त्यतिव्याप्तं, यथा--तस्यैव पशुत्वं । बाधितलक्ष्यवृत्त्यसंभवि, यथा नरस्य विषाणित्वं । अत्र हि लक्ष्यैकदेशवर्तिनः पुनरव्याप्तस्यासाधारणधर्मत्वमस्ति न तु लक्ष्यभूतगोमात्रव्यावर्त्तकत्वं । तस्माद्यथोक्तमेव लक्षणं । तस्य कथनं लक्षण-निर्देशः । विरुद्धनानायुक्तिप्राबल्यदौर्बल्यावधारणाय प्रवर्तमानो विचारः परीक्षा । सा खल्वेवं चेदेवं स्यादेवं चेदेवं स्यादित्येवं प्रवर्तते । प्रमाणनययोरप्युद्देशः सूत्र एव कृतः । लक्षणमिदानीं निर्देष्टव्यं, परीक्षा च यथौचित्यं भविष्यति । उद्देशानुसारेण लक्षणकथनमिति न्यायात्प्रधानत्वेन प्रथमोद्दिष्टस्य प्रमाणस्य तावल्लक्षणमनुशिष्यते, सम्यग्ज्ञानं प्रमाणं । अत्र प्रमाणं लक्ष्यं । सम्यग्ज्ञानत्वं तस्य लक्षणं । गोरिव सास्नादिमत्त्वं, अग्नेरिवौष्ण्यं । अत्र सम्यक्पदं संशयविपर्ययानध्यवसायनिरासाय क्रियते । अप्रमाणत्वादेतेषां ज्ञानानामिति । तथा हि विरुद्धानेककोटिस्पर्शि ज्ञानं संशयः । यथाऽयं स्थाणुर्वा पुरुषो वेति । स्थाणुपुरुषसाधारणोर्ध्वतादिदर्शनात्तद्विशेषस्य वक्रकोटरशिरःपाण्यादेः साधकप्रमाणस्याभावादनेककोट्यवलंबित्वं ज्ञानस्य । विपरीतैककोटिनिश्चयोPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 42