Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 2
________________ कान नमः सिद्धेभ्यः । श्रीधर्मभूषणयतिविरचिता - न्यायदीपिका । 巡 श्रीवर्धमानमर्हतं नत्वा बालप्रबुद्धये । विरच्यते मितस्पष्टसंदर्भन्यायदीपिका ॥ १ ॥ " प्रमाणनयैरधिगमः" इति महाशास्त्रतत्त्वार्थसूत्रं । तत्खलु परमपुरुषार्थनिःश्रेयससाधनसम्यग्दर्शनादिविषयभूतजीवादितत्त्वाधिगमोपायनिरूपणपरं । प्रमाणनयाभ्यां हि विवेचिता जीवादयः सम्यगधिगम्यंते । तद्व्यतिरेकेण जीवाद्यधिगमे प्रकारांतरासम्भवात् । तत एव जीवाद्यधिगमोपायभूतौ प्रमाणनयावपि विवेक्तव्यौ । तद्विवेचनपराः प्राक्तनग्रंथाः संत्येव, तथापि केचिद्विस्तृताः केचिद्गंभीरा इति न तत्र बालानामधिकारः । ततस्तेषां सुखोपायेन प्रमाणनयात्मकन्यायस्वरूपप्रतिबोधकशास्त्राधिकारसंपत्तये प्रकरणमिदमारभ्यते । इह हि प्रमाणनयविवेचनमुद्देश- लक्षणनिर्देश- परीक्षाद्वारेण क्रियते । अनुद्दिष्टस्य लक्षणनिर्देशानुपपत्तेः । अनिर्दिष्टलक्षणस्य परीक्षितुमशक्यत्वात् । अपरीक्षितस्य विवेचनायोगात् । लोकशास्त्रयोरपि तथैव वस्तुविवेचनप्रसिद्धेः । तत्र विवेक्तव्यनाममात्रकथनमुद्देशयनस्यतिकीर्णवस्तुष्यावृत्तिहेतुलक्षणं । तदाहुर्वार्तिककारपाठा परस्परध्यतिको सति येनान्यत्वं लक्ष्यते तल्लक्षणं” इति ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 42