Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 9
________________ चतुर्विंशतिजिनस्तुतिः। पं. श्रीशान्तिसुन्दरगणिवर्याः* स मङ्गलान्यातनुतां सुमङ्गला-पतिः सतामिन्द्रनरेन्द्रसेवितः । यदंसपीठे चिकुरावली बभौ, सुमेरुशृङ्गे किल कल्पमण्डली ॥१॥ अनन्तकालादपि भाववैरिणो, जनान् नतो वीक्ष्य दयार्द्रमानसः । इभं समारुह्य किलाङ्कदम्भतो, जघान यः स्तादजितः स वः श्रिये ॥२॥ ऋभुप्रभुभक्तिभरेण भूरिणा, भजन पदौ यस्य विभाविभासुरौ । बभार खद्योततुलां दिवाऽप्यहो, स शंभवो वो भवताद् विभूतये ॥३॥ जनुर्महे यस्य सुमेरुभूभृतः, प्रमोदभाजः शुचिमज्जनाम्बुभिः । सुराः स्फुरन्तः पुलका इवाऽऽबभुः, शिवश्रिये स्तादभिनन्दनः स वः ॥४॥ नमरेन्द्रामरराजशेखर-स्फुरन्मणिश्रेणिमरीचिवीचिभिः । अहर्निशं क्षालितपादयामलः, शुभां मतिं श्रीसुमतिस्तनोतु वः ॥५॥ प्रवालशोणच्छविकायकान्तिभि-र्दिशो दशाऽपि प्रतिपूरयन् बुधैः । अलक्षि साक्षादिव यः सरागतां, बहिः क्षिपन् श्रीधरभूः स शर्मणे ॥६॥ विजित्य पञ्चेन्द्रियगोचरोरगान, स्वसेवकीभावमचीकरत्तराम् । य उच्चचञ्चत्फणपञ्चकच्छलात्, सुपार्श्वनेता स शिवडूरोऽस्तु वः ॥७॥ अजीहिठच्चन्द्रमरीचिसञ्चयं, य आत्मभासां पटलैः प्रसृत्वरैः । सदा सदालोकपदप्रसादतः, शशाङ्लक्ष्मा स जिनो धिनोतु वः ॥८॥ अवेक्ष्य यस्याडभरुचः सुधोज्ज्वला-श्चिरं विचारं चतुरा इति श्रिताः । अनन्तविज्ञानविधोः परिस्फुटाः, प्रभाः किमेताः सुविधिः स वो मुदे ॥७॥ महीतले यं विहरन्तमन्वहं, नमोचरीकारिषुरंहिपा अपि । विहातुमेकेन्द्रियतामिवाऽऽत्मनो, ददातु वः शाश्वतशं स शीतलः ॥१०॥ विनम्रवृन्दारकमानवप्रभू-तमाङ्गसंलालितमालतीसजः । अबूभुषन् यत्पदपीठमुच्चकैः, स विष्णुसूनुर्जिनराट् शिवाय वः ॥११॥ * प्रायो वैक्रमीये १५तमे शतके अजमेरनगरात् पं. श्रीशान्तिसुन्दरगणिभिः देवकुलपाटकस्थितेभ्यः आचार्यश्रीदेवसुन्दरसूरिभ्यो लिखिते विज्ञप्तिपत्रे कृतेयं जिनचतुर्विशतिस्तुतिरत्यन्तं प्रासादिकत्वात् सरसत्वाच्चाऽत्र प्रकाशिताऽस्ति । (विज्ञप्तिपत्रमिदं आ.श्रीविजयशीलचन्द्रसूरिसम्पादितायाम् अनुसन्धान(६२)शोधपत्रिकायां प्रकाशितमस्ति ।)

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 120