Book Title: Nandanvan Kalpataru 2012 11 SrNo 29 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ प्रास्ताविकम् शरीरी च निरामयः । . प्रायेण न हि दृश्यते ॥ (त्रिषष्टिशलाकापुरुषचरिते) प्रपञ्चेऽस्मिन् विद्यमाना लोका बहुधा रोगग्रस्तदेहा वरीवृत्त्यन्ते । सर्वेषामपि जनानां देहे एको वाऽपि रोगो भवत्येव प्रायशः । सर्वथा नीरोगो निरामयो वा देहो बह्वधिकपुण्यैरेव यदि परं लभ्यः । तत्राऽपि साम्प्रते काले तु यत्र यत्र दृष्टिं प्रसारयेम तत्र तत्र हृद्रोगः, मस्तिष्करोगः, अर्बुदरोगः, कर्कटरोगः, मधुप्रमेहः, रक्तसम्मर्दः, सन्धिवात:, कुष्ठरोग:,... अहो ! रोगाणामावल्या अन्त एव न दृश्यते । बहवस्तादृशा रोगा अपि सन्ति येषां नामाऽमि कदाचिदस्माभिः श्रुतचरं न स्यात् । आधुनिकतन्त्रज्ञानेन सह नूतना रोगा अप बहव आविष्कृता इवेति प्रतिभाति । आधुनिकाश्चिकित्सका निष्णाताश्च रोगाणामेतेषां विविधानि कारणानि प्रस्तुवन्ति, तत्र च तेषां मुख्यः स्वरसः शारीरिकेषु बाह्येष्वेव च कारणेषु प्रकटीभवति । इतो द्विसहस्रवर्षेभ्यः पूर्वमेवाऽस्माकमायुर्वेदाचार्यैश्चरक-सुश्रुतप्रमुखैः स्वीयेष्वायुर्वेदशास्त्रग्रन्थेषु नैकेषां रोगाणां निदानमधिकृत्य विशदचर्चा कृताऽस्ति, यत्र चोपरि समुल्लिखितानां रोगाणामपि समावेशो भवति । किन्तु तस्याश्चर्चाया मुख्यो ध्वनिः शारीरिककारणानि बाह्यनिमित्तानि चाऽतिरिच्याऽधिकतया मानसिककारणानि प्रत्येवाऽङ्गुलिनिर्देशं करोति । ते हि कथयन्ति यन्मानसे समुद्भूताः क्रोध-द्वेषेर्ष्यामात्सर्याहङ्कार- र- माया- कपट-गार्थ्यासक्त्यादयो दोषा एव शारीराणां रोगाणां प्रमुखं कारणम् । तत्राऽपि ये निरन्तरमेतादृशैर्दोषैः पीड्यमाना भवन्ति तेषां शरीराणि तु रोगाणां खनिरेव भवति । एतद्वैपरीत्येन च ये सौम्याः स्वस्था: शान्तचित्ताः अल्पकोपादिदोषाश्च भवन्ति तेषां शरीराणि ह्याजीवनं नीरोगाणि स्वल्परोगाणि वा भवन्ति, नात्र शङ्कालेशोऽपीति । विधानमेतत् किलाऽऽधुनिकमानसरोगतज्ज्ञैरपि समर्थ्यतेऽद्यत्वे । यदि तत् सम्यक् चिन्त्यते तदा तस्य सत्यत्वं याथार्थ्यं च प्रतीयत एव । दृश्यत एव यज्जनाः स्वजीवनस्य महान्तं कालं प्रायस्तादृशानां दोषाणां सेवनेनैव गमयन्ति, फलतश्च व्यतीते यौवनसामर्थ्ये तेषां शरीराणि रोगाक्रान्तानि भवन्त्येव । तच्चिकित्सार्थं च जना विविधानां चिकित्सकानां विमर्शं गृहीत्वा प्रभूतधनव्ययं च कृत्वौषधादीनामासेवनं तदन्यां चिकित्सां च कुर्वन्ति । एतेन कदाचिद्रोगशान्तिर्भवति कदाचिच्च नैव भवति, सर्वथा तदुन्मूलनं तु नैव भवति । ततश्च शरीरं सर्वथा जर्जरीभूय प्रान्ते विनश्यति । एवंस्थितेऽपि जना न कदाचिदपि मानसिकदोषाणां निर्मूलनेऽल्पीकरणे वा प्रवर्तन्ते, न चापि स्वस्थचित्ताः सौम्याः शान्ता वा भवन्ति । यद्येतदर्थं प्रयत्नः क्रियेत तदा विनैव धनव्ययं क्लेशं च सर्वदा नीरोगत्वं निरामयत्वं च हस्तगतमेव स्यात् । अथैतद्विषये विशदं चिन्तनं कृत्वा वयमपि निजं चित्तं स्वस्थं स्वच्छं शान्तं सौम्यं च कुर्याम दोषमुक्ताश्च भूत्वा निरन्तरं निरामया नीरोगाश्च वर्तेमहि खलु !! आश्विन शुक्ला प्रतिपत् वि.सं. २०६८, भावनगरम् कीर्तित्रयी Jain Education International 6 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 110