Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 6
________________ वाचकानां प्रतिभावः नन्दनवनं नन्दयति ।। नूनं नन्दनवनं नन्दयति हृद्यं कृत्वा हृन्मण्डयति ।। - नूनं - ॥ संस्कृतभावान् पोषयति अभद्रभावान् शोषयति, सतां मनांसि तोषयति नन्दनवनमानन्दयति । – नूनं – । प्रीत्या प्रियं प्रसारयति कार्यं करोति, कारयति, दुःखोद्वेगान् दारयति नन्दनवनमानन्दयति । - नूनं – ।। संस्कृत-शुद्धं स्मारयति, संस्कारान् सन्तोषयति, धर्मामृतमप्यर्पयति नन्दनवनमानन्दयति । – नूनं - ॥ स्वदेशसेवां सूचयति विश्वधर्ममपि धारयति, नयं नु नीत्या प्रेरयति, नन्दनवनमानन्दयति । - नूनं - ॥ चित्ते चिन्त्यं चेतयति नन्दनन्दनं गीतयति, जनमङ्गलं विकासयति नन्दनवनमानन्दयति । - नूनं - ॥ डॉ० वासुदेवः पाठकः 'वागर्थः' अमदावाद १. नन्दनवनम्-नन्दनवनकल्पतरुः २. कार्यम् - (१) करणीयं, कर्तव्यं (२) कर्म. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 110