Book Title: Nandanvan Kalpataru 2012 11 SrNo 29 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ वाचकानां प्रतिभावः सम्मान्याः, सादरं नमो नमः । भवद्भिः करुणावरुणालयैः प्रेषितो नन्दनवनकल्पतरोः २८तमोऽङ्कोऽद्यैव सम्प्राप्तः । भृशमनुगृहीतोऽस्मि । नूनमयमनेकमनोहरस्तम्भमण्डितदेवप्रासाद इव तत्सेविनां सुमनसां मनांसि सुखयत्याह्लादयति च, तत्र नास्ति मे मनसि शङ्कालेश इति विरमामि । - किशोरचन्द्रपाठकः अमरेली * * * गुरुपदपद्मे रता मान्या कीर्तित्रयी, नमो नमः । 'नन्दनवनकल्पतरुः' प्रेरयति नवं नवं सारस्वतं कर्तुम्। आनन्दश्चाऽनुभूयते तेन। सरस्वत्याः प्रसादेन भवद्भिः क्रियते मुदा । संस्कृतस्य वरा सेवा इत्यतः प्रणता वयम् ॥ अस्तु सातत्यम् । सादरमभिनन्दनानि ॥ डॉ. वासुदेवः पाठकः 'वागर्थः' अमदावाद Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 110