Book Title: Nandanvan Kalpataru 2000 00 SrNo 03 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 9
________________ वाचकानां प्रतिभावः= कुशलम् श्रीः यादवाद्रिः दिनाङ्क : 26-1-2000 क्रिश. आचार्यश्रीविजयशीलचन्द्रसूरये नमस्कृत्य श्रीरामशर्मा विज्ञापयति । उभयकुशलोपरि साम्प्रतम्। भवता प्रेषितं हि कृपया नन्दनवनकल्पतरुशाखिद्वयम्। तत् लब्धं मया। तत्र अभिप्रायार्थं अवलोकनार्थं चेति या सूचना लिखिता सापि लब्धा । ततः प्रथमं अभिप्रायार्थं अवलोकनं कृतम् । अभिप्राय इदानीं निवेद्यते । यथा - अत्र शाखायां स्तुतिः चरितं धर्मः नीतिकथाः हास्यकणिकाः इति पञ्च उपशाखाः अवलोकिताः परामृष्टाश्च । तत्र स्तुतिगीतिविषये द्वितीयशाखायां जगन्नाथाख्येन विदुषा यत् अभिप्रायप्रपञ्चनं कृतं तदेवास्माकमप्यभिमतम् । व्यक्तीनां आत्मनि धन्यता धर्मः श्रेयश्च देवगुरुगुणवृत्तादिस्तुतिमात्रेण भवत्येव । तत्रापि गीतिरूपा स्तुतिः अतीव शुद्धा सरसा च । जैनेतरजनानामपि सङ्गीतसाहित्याख्यसरस्वतीमातृस्तनद्वय प्रस्नुत-स्तन्यपायिनां सहृदयानां बालानामिव धारकं पोषकं भोग्यं चैतत् रचनम् । गुरूणां चरितं हि सामयिकं धर्मश्रद्धालूनां सर्वविधमतस्थानामपि विद्याप्रेमिणां बोधयोग्यं सन्मार्गगमने शाखाहस्तवत् उपयोगकरं च । धर्मविचारे निरूपणं सरलं सुन्दरं च जैनमतप्रक्रियायाः परिचायकं च। नीतिकथासु विक्रमादित्यभोजादीनां लोकप्रसिद्धाना कथाः एव श्राविताः सुन्दरतया महाभारतीयाश्च । किञ्च पूर्वं अस्मामिः वेतालकथैव श्रुताऽऽसीत् अत्र तु अग्निवेताल इति विशेषः समुचितः ज्ञातः । आदौ रामतपोवनाभिगमनं इति अनुगमनं इति वालीनिग्रहणं इति चैतद्धि इति पाठान्तरैः इदं पद्यं प्रतिदिनं गृहे गृहे मात्रादिभिः बालाः पाठ्यन्ते अस्मत्प्रदेशे । तत्र अधिगमनपाठः अभिगमनपाठादपि सुयुक्तः इति मन्ये । तक्ररामायणं इति प्रसङ्गस्तु रुचिरः मया इदंप्रथमतया ज्ञातः। बादरायणसम्बन्ध-विषयकः श्लोकः अस्माभिः भोजकालिदाससम्बद्धो न श्रुतः किन्तु अन्यसम्बद्धः। किञ्च अस्माकं पाठः एवमस्ति । यथा अस्माकं बदरी चक्रं इति पूर्वार्धे; उत्तरार्ध तु बादरायणसम्बन्धात् यूयं यूयं वयं वयम् । इति। हास्यकणिकासु संस्कृत भाषायाः रीतिः रसोन्नयनशैली सरलता च न व्यत्यस्ताः इति सन्तोषस्थानम् । लिप्यां शिरोरेखायाः आवश्यकतां सूचयद्भिःभवद्भिगुर्जरैरपि देवनागरी Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 102