Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 36
________________ २१ यस्मिन नगरे राजिया-वाजियापारेख-तेजपालसंघपति-उदयकरणसंघपतिकविवरश्रीऋषभदासादयः सुश्रावका जाताः । यत्र कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिणो दीक्षाऽभूत् । यन्नगरं श्रीअभयदेवसूरि-श्रीसोमसुंदरसूरि-अकबरप्रतिबोधकजगद्गुरुश्रीहीरविजयसूरि-श्रीविजयसेनसूरिपुङ्गवप्रमुखाचार्यपरमपवित्रपादारविन्दैः पावनीभूतमासीत् । यत्र द्वादशलक्षवर्षाधिकचिरन्तनी कामितपूरणश्रीपार्श्वप्रभोः नयनरम्या प्रतिमा विराजते । यत्र प्रायोऽशीतिरभ्रं लिहभव्यजिनगृहाणि दीप्यन्ते तथा विद्वज्जनानामध्ययनायाऽ मूल्याऽऽगम-न्याय-ज्योतिष-व्याकरण-साहित्यादिग्रन्थगणैः सुशोभितानि ज्ञानमन्दिराणि च सन्ति । अधुना तु तन्नगरं खंभात इति नाम्ना प्रसिद्धमस्ति। तत्र च वसति स्म जिनेश्वरेष्वप्रतिमश्रद्धावान् गुरुजनेषु च परमप्रीतिधारकः श्रीछोटालालनामकः सुश्रावकः । तस्याऽऽसीत् भार्या प्रसन्नतायाः प्रतिकृतिरिव तथा दानशीलादिगुणालङ्कारान्विता श्रीपरसनदेवी। ''पुण्यवन्त उत्तमजीवा उत्तमक्षेत्रे एव जायन्ते'' श्रीस्थंभतीर्थे वैक्रमीये वेदयुगग्रहजैवातृक(१९४४)संवत्सरे तैषशुक्लस्य वदनेन्दु(११)तिथौ भोमवासरे प्रशस्तमुहूर्ते श्रीपरसनदेव्याः कु क्षे: जिनशासनपुष्करे कुवादिकुहेवाकतिमिरतिरस्कारकारकोऽजनिष्टैको बालकः।। अपूर्वतेजोभिः सुशोभितं ललाटं, प्रसन्नां सौम्यां च मुखमुद्रां तस्य निरीक्ष्य पितरौ अतीवाऽऽनन्दितौ आस्ताम्। तेषां मानसं हर्षोल्लासेन पूरितमंभूत्। सर्वे कौटुम्बिक-जनाश्चाऽपि तस्य बालकस्यैतादृशं ललाटं प्रेक्ष्याऽऽनन्दमनुभवन्तः परस्परमकथयन्-यद् एष बालको भविष्यकाले महापुरुषो भविष्यति। अथ शुभे दिने तस्य बालकस्य ‘उजमशी' (उद्यमसिंह) इत्यभिधानं कृतम्। तस्य द्वौ ज्येष्ठौ भ्रातरौ 'ठाकरशीभाई-मोहनभाई इत्याऽहौ, 'रतनलालः' इति नाम्ना लघीयोभ्राता, तथा 'रेवा' नाम्ना एका भगिन्याऽऽसन्। (२) शैशवकाल: मातापितरौ धर्मनिष्ठौ संस्कारिणौ चाऽऽस्ताम्। ततस्तयोः शुभसंस्काराः पुत्रेऽपि सहजं परिणताः । “यदि मातृहृदये शुभभावना भवेत् तयवश्यमेव सा बालकस्य मानसपटेऽविता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102