Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ ३७ (१४) विश्रामणा 'पतितपरिणतिवतामात्मनां सदुपदेशदानेन संयमे स्थिरीकरण 'मिति विश्रामणां बालसाधूनां नूतनसाधूनां चाऽऽवश्यकक्रियामभ्यासादिप्रवृत्तिं च सततं संलक्ष्य तेभ्यः साधुभ्यो योग्यं मार्गदर्शनं हितकारिणीं हितशिक्षां च यच्छन्ति स्म ते पूज्यपादाः । स्वकीयसमुदायानां परकीयसमुदायानां वाऽऽराधनायां प्रमत्तसाधूनां मातृवत् वात्सल्यपूर्वकं सोत्साह प्रमादस्याऽशुभविपाकादीन् दर्शयित्वा बुध्यन्ते स्म ते । एवंरीत्या अनेके जीवाः तैः संयमे स्थिरीकृताः । अधुनाऽपि ते जीवा अवश्यमेव पूज्यपादान् स्मरन्ति। प्रवर्तमाने काले कुत्रचिदेव विश्रामणा गुणो दृश्यते। अधुना संयमे शिथिलसाधून प्रमादिसाधून च वीक्ष्य केचिज्जनास्तान् निन्दन्ति, किन्तु नैतत् योग्यम् । अस्मिन् विषमकाले मार्गच्युतानां मार्गभ्रष्टात्मनां निन्दाकरणे नास्ति महत्ता। किन्तु तादृशां जीवानां तद्योग्यां देशनां दत्त्वा स्वमार्गे स्थिरीकरणे एव महत्ताऽस्ति । ततस्ते एव साधुवादस्य योग्याः, यैः शिथिलसाधूनां चारित्रे स्थिरत्व-मदायि। (१५) समाधिः 'अहं देहाद् भिन्न:, मत्त: सर्वमपि भिन्नमिति बुद्धया वर्तनं बाह्यदशां त्यक्त्वा सङ्कल्पविकल्पविहीनबुद्धयाऽऽभ्यन्तरदशायां रमणम्' समाधिः । समपरिस्थितौ विषमपरिस्थितौ वा माध्यस्थ्यभावेन रमणमेव समाधिः यदा सुखदकाले वा ईप्सितस्य प्राप्तौ सत्यामपि वा न रागः स्यान्न वाऽऽनन्दः, तथैव दुःखदपरिस्थित्यामनिष्टसंयोगे सत्यामपि वा न शोकः स्यान्न वोद्वेगस्तदैव समाधिः। पूज्यपादैः जीवनपर्यन्तं समाधिः साधिता । कदापि तेषां वदने न दृश्यते स्म उद्वेगो ग्लानिरतृप्तिश्च । सदा प्रसन्नाः परमाः संतोषिणश्चाऽऽसन्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102