Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 91
________________ ७६ हास्यं निषिद्धम् वृद्धा वैद्यराज ! ममाऽयं अधस्तनस्तृतीयो दन्तो मुंश पीडयति । कमप्युपायं कुरु। दन्तचिकित्सक : मातः! मुखमुद्घाटय; पश्यामितावत्। (पश्यति) हुम्...शटितोऽयं दन्तः निष्कासयितव्यः । मुखमुद्घाटय मातः ! (मुखमुद्घाटयति सा) दन्तचिकित्सक : अम्ब ! किञ्चिदधिकं विस्तारय । आऽऽऽ..इति। वृद्धा (विस्तारयति ।) आऽऽऽऽ...। दन्तचिकित्सक : मातः ! इतोऽप्यधिकम्।। (पुनर्विस्तारयति सा।) दन्तचिकित्सक : मातः ! इतोऽप्यधिकं किञ्चित्... वृद्धा (क्रुद्धा) रे रे पुत्रक ! किं मम मुखमध्ये उपविश्य दन्तं निष्कासयिष्यसि ? वेगड : पाण्डे ! अरण्यमध्ये गच्छन्तं त्वां यदि व्याघ्रो मिलेत् तर्हि त्वं किं कुर्याः? पाण्डे भोः! तदा नाऽस्ति मया किमपि कर्तव्यं ! यत् कर्तव्यं तत् स एव करिष्यति !! पुत्र : (गायकं पितरं) पितः ! अद्य एतौ द्वौ चन्द्रको भवता किमर्थं प्राप्तौ ? . पिता पुत्र ! श्रृणु । एष लघुचन्द्रकस्तावद् गानार्थं प्राप्तः । अयं च बृहचन्द्रको झटिति गानस्य स्थगनार्थम्। - मुनि कल्याणकीर्तिविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102