Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 62
________________ ४७ अरिहंता भगवंतो अहियं व हियं व न हि इहं किंचि । वारंति कारवेतिं य घेत्तूण जण बला हत्थे। (उपदेशमाला ४४८) निराग्रहवृत्तिरेव ज्ञानिनां वास्तविकं लक्षणमपि । निराग्रही एव तत्त्वं बोधयितुं शक्तः । 'निराग्रहादेव वक्तुः सकाशात् तत्त्वाधिगमो भवतीति वचनात्। ___ गोशालकस्तु, येन पूर्वं भगवन्महावीरस्य शिष्यत्वं प्रतिपन्नमासीत्, स एव ततः पृथग्भूय किञ्चिद्धीत इव नैमित्तिको भूत्वा निजं च स्वतन्त्रंमतं संस्थाप्य स्वमेव महावीरत्वेन ख्यापयन् वर्त्तते स्म । तथापि भगवन्महावीरेण न कदाप्येतादृश्यास्तस्य प्रवृत्त्या विरोधो विहितो, नाऽपि च तां प्रतिकर्तुं कश्चित् प्रयत्नोऽपि कृतः । परं गोशालकस्तु सततं भगवन्महावीरं मिथ्या व्यवस्थापयितुमुद्यत आसीत्, यतस्तत्राऽऽसीदसद्ग्रहो, न तु सत्यम्। निःसारस्य पदार्थस्य प्रायेणाऽऽडम्बरो महान्। नहि तादृग् ध्वनिः स्वर्णे यादृक्कांस्ये प्रजायते॥ अत्र भगवन्महावीरस्य पक्षे तु केवलं सुवर्णवद् विशुद्धं सत्यमेवाऽऽसीन्न किन्त्वाग्रहलेशोऽपि । सत्यं तु केवलं स्वीयं स्वरूपं प्रकाशयति परमसत्यं त्वन्यत्तिरस्करोति, यतो नास्ति तस्य स्वीयं निश्चितं किञ्चित् स्वरूपमपि। यत्राऽस्त्याऽऽग्रहस्तत्र परान् मिथ्या ख्यापयितुं स्वस्माच हीनान प्रदर्शयितुं वृत्तिरुतिष्ठते । सा एव च वृत्तिस्तस्य समग्रां साधनां निष्फलामिव निर्मिमीते। व्रतानि चीर्णानि तपोऽपि तप्तं कृता प्रयत्नेन च पिण्डशुद्धिः। अभूत् फलं यत्तु न निहवाना-मसद्गृहस्यैव हि सोऽपराधः॥ (अध्यात्मसार १४/८) आग्रहान्न कश्चिद् लाभविशेषो भवत्यात्मानं, केवलं हानिरेव भवति, परांश्च न किञ्चिद् हानमपि भवति। किन्त्वहङ्काराविष्टा आग्रहिणोजना न कञ्चिद् लाभालाभं पश्यन्ति। कदाग्रहोऽपि सर्वदा तर्कशून्यः कुतर्कबहुलश्च भवति । स्वमंताग्रहवशात परेभ्यो यथा तथोपदिश्य विशालोऽनुयायिवर्गोऽपि निर्मातुं शक्य एव । भगवन्महावीराद् गोशालकस्याऽनुयायिनां वर्गो विशाल आसीत्। असत्यस्य समर्थकाः सर्वकाले Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102