Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ ५७ रङमञ्चः -मुनिकल्याणकीर्तिविजय : भिक्षुकः पूर्वाङ्कतोऽनुवर्तते। | चतुर्थं दृश्यम् (अथ त्रिष्वपि गृहेषु अलब्धभिक्षस्ततश्चाऽतीव निराशो भिक्षुकस्ततोऽग्रे गच्छन् कस्यचिद् सद्गृहस्थस्य गृहं दृष्ट्वा तत्समीपमागतः । द्वारि स्थित्वा भीतभीतेन तेन पूत्कृतम्-) श्रेष्ठिवर्य ! भोः श्रेष्ठिवर्य ! दिनत्रयेणाऽप्राप्तान्नकणो नूनं बुभुक्षया मरिष्यामि । कृपया किञ्चिदपि खादितुं देहि। सदगृहस्थः (स्नानादिकं कृत्वा देवस्थानं जिगमिषुर्बहिर्निर्गच्छन्) अहो ! अतिथिः? अतिथिस्तु देवः । मम भागधेयैरागतोऽसि । उपविशाऽत्राऽङ्गणे । तव क्षुधं निवारयितुं भोजनमानयामि अहम्।। (इति मृदुस्वरेणोक्त्वा स गृहान्तर्गतः । कतिभिः क्षणैः भोजनपूर्ण-स्थालं गृहीत्वा बहिरागतः।) सद्गृहस्थः बन्धो ! गृहाणेदं भोजनम् । शमय स्वकीयां बुभुक्षाम्। भिक्षुकः (भोजनं दृष्ट्वा लब्धचेतनो हृष्टः सन्) प्रभो ! प्रभो ! महती कृपा कृता। (गृहस्थपादयोः पतित्वा) त्वमेव मे भगवान् । प्रभो ! त्वमेव मे भगवान् । सद्गृहस्थः मा मैवं कुरु बन्धो ! । निश्चितं भुव । (भिक्षुक उच्चै रोदिति।) सद्गृहस्थः मा रोदीः बन्धो ! सुखदुःखयोश्चक्रं त्वस्मिन् जगति सदैव चलति । अद्य सुखं, श्वो दुःखम् । अद्य दुःखं श्वः सुखम् । शान्तो भूत्वा शनैः शनैः खाद । (तन्मस्तके हस्तं प्रसारयति ।) भिक्षुकः (रुदन्) प्रभो ! मनुष्य ईदृशो निर्दयः कथं भवितुमर्हति ?। सद्गृहस्थः किमिति त्वमेवं वदसि ? भिक्षुकः प्रभो ! अद्याऽहं दिनत्रयेणोपोषितो कस्यचिदेकस्य गृहं गत्वा यदा भोजनमयाचत तदा स मां व्याकरणं शिक्षयन् शब्दब्रह्मसेवन-मुपदिष्टवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102