Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ सद्गृहस्थः वैयाकरणः सद्गृहस्थः सद्गृहस्थः पण्डिताः सद्गृहस्थः पण्डिताः यत् तद्दुःखाग्रे शास्त्र - काव्यादीनां चर्चा नितरामसारैव । सम्यक्तयाऽनुभूतं तद्दुःखं भवद्भिः ? Jain Education International आम् ! सम्यक्तयाऽनुभूतम् । अद्यप्रभृति अस्मदङ्गणात् कदाऽपि कोऽपि बुभुक्षितो न निर्गमिष्यति । साधु पण्डिताः ! साधु । ( उच्चैरादिशति - ) भोः ! द्रुतं भोज्यानि पेयानि चाऽऽनय । ६५ ( तत्क्षणमेव मोदक - मण्डक- वटक - रसगोल- पूरिका - जले बिकादीनि भोज्यानि द्राक्षापानादीनि पेयानि चाऽऽनीतानि ।) आकण्ठं भुञ्जन्तां पण्डिताः ! निःसङ्कोचं भुञ्जन्ताम् । (विस्मिता विस्फारितनेत्राश्च) सत्यं खलु ? आ..हा..हा... (भुञ्जन्ते । भोजनानन्तरम्... ) ओहिया... ओहिया..... पण्डिताः ! गृह्णन्तु दक्षिणामिमाम् । (दक्षिणां ददाति ।) ओ..हो..हो.. आकण्ठं भोजनानन्तरं दक्षिणाऽपि ? धन्यवादाः श्रेष्ठिन् ! धन्यवादाः । ( त्रयोऽपि गच्छन्ति ।) (नाटकमिदं गूर्जरभाषायाः सुविश्रुतबालसाहित्यकारेण श्रीरमणलाल सोनी - इत्यनेन लिखितायाः 'त्रण पोथी - पण्डितो' इति कथाया आधारेण सङ्कलितम् । व्यालोऽपि गरलं मुक्त्वा शाम्येन्न पुनरन्यथा ॥ हैमवचनामृतम् ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102