Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ ७३ । मर्म-नर्म = पारितोषिकम् पितः ! स्मरति भवान् यद् गते वर्षे भवता उक्तं 'यदि त्वं दशमकक्षायां उत्तीर्णो भविष्यसि तर्हि यथाकामं पारितोषिकं ते ददामि' इति ? 'बाढं स्मरामि भोः!' तर्हि अस्मिन् वर्षे दशमकक्षायामहमुत्तीर्णो भवेयं तदा भवानं किं दापयिष्यति मह्यम् ? 'द्विचक्रं यानम्। अथ केनचितं कारणेनाऽनुत्तीर्णः स्यां तदा ? 'तदा तु त्रिचक्रं वाहनम्। वयं असाम्प्रदायिका ननु ! ननु पूर्वमस्माकं शालासु शिक्षका पाठ्यन्ति स्म यद् 'ग गणपतेः ग' इति। अधुना तु किमर्थमित्थं पाठ्यते - ‘ग गर्दभस्य ग' इति ? भो ! इयदपि न बोधसि ? । अरे ! अस्माकं राष्ट्रं असाम्प्रदायिकतानीति वृतमस्ति । अतोऽत्र राष्ट्रे गणपतिर्हि देवत्वेन साम्प्रदायिकः पदार्थोऽस्ति । गर्दभस्तु नितरामसाम्प्रदायिकः, पशुत्वात् । अतः कारणादेवेत्थं परिवर्तनं दरीदृश्यते खलु । -विजयशीलचन्द्रसूरिः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102