Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ सद्गृहस्थः अरे ! मुख्यं कर्तव्यं तु विस्मृतमेव । किमिति इयती वेला जाता? अन्वेषयामि तावत्। (इत्युक्त्वा गृहान्तर्गतः स प्रहरार्धेनाऽऽगतः । इतस्त्रयोऽपि ते अतीव क्षुधाव्याकुला अभवन् ।) वैयाकरणः भोः श्रेष्ठिन् ! भोजनं प्रगुणीकृतं न वा ? मध्यरात्रमभवदिति मन्ये। सद्गृहस्थः क्षन्तव्योऽहं पूज्यैः । किञ्चिद् विलम्बो जातः । अधुना सर्वमपि प्रगुणीभूतमस्ति । आगच्छन्तु भोजनखण्डे । (सर्वेऽपि गच्छन्ति।) | अष्टमं दृश्यम् (तोरणैरलङ्कृते धूपामोदेन च सुगन्धिते भोजनखण्डे नयति तान् ।) सद्गृहस्थः इत इत आगच्छन्तु । अत्राऽऽसनेषु उपविशन्तु। (तेषां पुरतः पीठानि स्थायित्वा तेषु चीनांशुकाच्छादिताः तिस्रः स्थालीः स्थापयति।) पण्डिताः अहो..हो..हो.. ! श्रेष्ठिन् ! महती व्यवस्था कृता भवता? सदगृहस्थः पूज्यवर्याः ! यथाशक्ति कृता । अथैतेषु स्थालेषु सुस्वादूनि भोज्यानि परिवेषितानि सन्ति । भवन्तः सानन्दं भुञ्जन्ताम् । मा लज्जन्ताम्। (सलालसं विहसद्भिस्तैझटिति आच्छादनवस्त्रमपावृतम्। स्थालमध्ये दृष्ट्वा विस्फारितनेत्राः-) पण्डिताः श्रेष्ठिन ! काऽस्ति भोजनम् ? क च वटक-रसगोल- जलेबिका मण्डक-मोदकादीनि ? स्थालमध्ये तु पुस्तकानि सन्ति। सद्गृहस्थः (अपरावृत्तमुखभावः) भुञ्जन्ताम्...भुञ्जन्ताम् । भवदभिलषितानि भोज्यान्येतानि । निःशङ्कं भुञ्जन्ताम् । नाऽत्र लज्जितव्यम्। पण्डिताः (क्रुद्धाः सन्तः) किं भवान् उपहसति अस्मान् ? किं कोऽपि कदाऽपि पुस्तकं खादति ? सद्गृहस्थः मा मैवं कुपत । भवद्रुचिमनुसृत्यैव मयेदं भोजनं प्रगुणीकृतम्। (वैयाकरणं प्रति-) पण्डितवर्य ! भवांस्तु महान् वैयाकरणः । व्याकरणे तु भवतो उर्वी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102