Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ ५४ प्रान्ते स व्यालः स्वकीयां सर्वामपि चेष्टां संहृत्य स्वस्थानं प्रति प्रयातः। तदाऽऽश्चर्यान्वितानन्दमेदुरमानसेन 'पोलबन्टनेन' योगी पृष्टः - भो! कथं स भुजङ्गमो हस्तस्पर्शमात्रेणैव प्रतिन्यवर्तत ? | तदा योगी आह - कस्मात् भीतिः मे? यतो मया तस्य किमप्यशुभं न कृतम्। मम हृदये सकलजीवानां कल्याणभावनैव रममाणाऽऽसीत् । एतया भावनया पवित्रपुरुषान् विचलितुं न केऽपि समर्थाः। एतेन ज्ञायते, यदा हृदये सर्वान् जीवान् प्रति मैत्रीभावः क्षमाभावो वोद्भवति तदाऽस्मिन् संसारे स जीव किमपि कर्तुं समर्थोऽस्ति । स अत्रैव मोक्षसुखस्या-ऽऽनन्दमप्यनुभवति। मम हृदयेऽपि मैत्र्युद्भवेदिति शम्। । कति भिक्षुकान् । प्रीणयामि? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102