Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ ४० पूज्यपादानां निकटे आगतः तावति काले एव स बालकोऽपि वाक्शक्तिविहीनः विशुद्धस्पष्टोचारणपूर्वकेण वक्तुमारब्धवान् । एतेन ज्ञायते यद्, पूज्यपादानां वचने का शक्तिरासीत् । तेषां नामस्मरणमप्यशुभनाशकमासीत्। (१७) आत्मजागृतिः आसन् गुणाकराः पूज्यपादाः । उपरि वर्णितैः गुणैः सहाऽन्येऽपि पापभीरुताभवभीरुता-आत्मजागृतिश्चैवमनेके गुणा तेष्वासन्। पूज्यपादानामात्मजागृतिरनन्यैवाऽऽसीत्। यत्राऽत्मजागृतिस्तत्र पापभीरुता भवभीरुता च स्तः एव। उपयोग एवाऽऽत्मजागृतिः। यत्राऽस्ति आत्मजागृतिस्तत्र जीवनेऽन्यदुर्गुणानां प्रवेशोऽशक्योऽस्ति। उपयोगपूर्वकेणैव साधुना किमपि कार्यं करणीयमन्यथा साधुवेषस्य सत्त्वेऽपि स साधुत्वेनाऽऽख्यातुं न शक्यते । यतो जिनशासने जागृतिं विना कृतं सर्वमपि कार्यं न सम्मतम् । पूज्यपादा बाढं जागृता आसन् । पूज्यपादानां चित्तं सदा प्रभुध्याने स्वाध्याये चैव लीनं तिष्ठति स्म । ते मृदुभाषिणस्तथा मितभाषिण आसन् । ‘‘एकोऽपि शब्दः प्रमादादयोग्य उद्येत तर्हि पापकर्म बध्यते' इति मन्यन्ते स्म ते। ततो न कदापि विना कारणं वदन्ति स्म ते । यदा यदा तेऽवदन् तदैकाग्रचित्तेनैवोपयोगपूर्वकमेव चाऽवदन् । कदाचित् पदस्था वाऽन्ये वा साधवः सावधं गदेयुः तर्हि तेभ्योऽपि प्रायश्चित्तमयच्छन्। एतादृगात्मजागृत्याः प्रभावात्, अपूर्वं ज्ञानं निर्मलं चारित्रं च तेषामासीत् तथाप्यहङ्काराभाव एव तत्र प्रवर्तते स्म। 'अन्येभ्योऽहं विशिष्टः, अधिकज्ञानवान्, चारित्र-चूडामणिः, गीतार्थशिरोमणिः' एवं न लिखितं, न लेखितं चाऽपि । तथा च तदर्थं प्रयत्नोऽपि न कृतः । कदाचित् कोऽप्यागत्य पूज्यपादानां प्रशंसां यदि कुर्यात् तर्हि पूज्येभ्यो न तद् रोचते स्म । तर्हि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102