Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 54
________________ ३९ निर्मलमासीत् । तत एव निर्मलसत्त्वप्रभावेण पूज्यपादानां मुखात् निर्गतं वाक्यं सिद्धं भवत्येव । वयं सर्वेऽपि जानीमो यद्, एकमपि व्यञ्जनमर्थविहीनं नास्ति। तद्वयञ्जनवृन्दात् शब्दो भवति । एवं प्रत्येक शब्देषु गूढा शक्तिः समाविष्टाऽस्ति । यदा च शब्दस्थिता शक्तिः सत्त्वस्याऽलम्बनं प्राप्नोति तदा सा शक्तिः स्वयमेव प्रादुर्भवति । तत एव सत्त्वशीलपुरुषाणां मुखात् प्रसृतो शब्दः सिद्धो भवत्येव । ईशानां महापुरुषाणां मुखात् यदपि वाक्यं निर्गच्छेत् तन्मन्त्रमयं भूत्वा सफलं भवत्येव । पूज्यपादानां जीवने घटित एकः प्रसङ्गः स्मर्यते। आसीदेको ग्रामो जूनागढप्रदेशे "गिरतलाल' इत्यभिधानकः । तत्र केनाऽपि कारणेन कस्यापि जनस्य पुत्रस्य वाक्शक्तिः हता। पित्राऽनेके कृता उपचाराः, किन्तु न कोऽप्युपचारः सफलीभूतः। तदा केनापि कथितं त्वं 'सावरकुंडलाग्राम' गच्छ, तत्र अस्माकं गुरुवर्या विराजमानाः सन्ति, तत्समीपं गच्छ। स तत्र गतः । ततोऽविहरन् पूज्यपादाः । स जनोऽपि सपुत्रः पूज्यपादान् मार्गयन् 'राजपरा' इत्यभिधानं ग्रामं गतः । पूज्यपादा आहुः- कथमागतः ?। तेन सर्ववृत्तान्तः कथितः। पूज्यपादैः व्याकृतं - कदा ग्रामं जिगमिषुरसि ? तेन प्रोक्तं - भवतां यादृश्याज्ञा । पूज्यपादैः गदितं - भोः ! साम्प्रतं निशाकालो जातः । ततः प्रातरागगच्छेः । पुत्रेण सह स जनः प्रातः पूज्यपादानामन्तिकमागतः। पूज्यपादैः मन्त्रितवासचूर्णं कृत्वा कथितं ''श्रीकदम्बगिरिमारुह्य विशुद्धबुद्धया जिनेश्वरं नमस्कृत्याऽत्राऽऽगच्छ। जिनेश्वरस्य कृपया ते पुत्रः स्वस्थो भविष्यति। 'तथेति' एवं कथयित्वा सपुत्रः पिताऽद्रिमारुढः । अपूर्वश्रद्धया जिनेशं वन्दित्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102