Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ ४१ गर्वस्य का वार्ता ? किञ्च, पूज्यपादानां शरीरसंयमोऽपि वर्णनीय आसीत् । शरीरसंयम एवाऽऽत्मसंयमे कारणमस्ति। ___ व्यराजन्त भावनगरे पूज्यपादाः । एकदा 'बनाजी' इत्यभिनामक आङ्ग्लवैद्यो दृष्टिरोगनिपुणस्तत्राऽऽगतः। तेन पूज्यपादानां नेत्ररोगं(मोतियो) दूरीकृत्वा कथितं भवन्तः क्षुतं मा कुर्वन्तु । त्रयोदशदिनेषु पूर्णेषु आङ्ग्लवैद्येन सन्धानं त्रोटितम् । तदा पूज्यपादैः पृष्टम्- किमधुना क्षुतं कुर्वाणि न वा ? आङग्लवैद्य आह- किं त्रयोदशदिनपर्यन्तं क्षुतं न कृतम् ? पूज्यपादा आहुः - भवता निषेधः कृतस्ततो मया क्षुतं न कृतं, तत्पश्चात्तदैव पूज्यपादैः क्षुतं कृतम्। अहो ! इन्द्रियाणामप्यपूर्वः संयमः। एवं तिरस्कृतप्रमादानां पूज्यपादानामात्मजागृतिरतीव प्रशंसनीयाऽऽसीत्। (१८) महायात्रा देहस्य प्रातिकूल्याद् विहर्तुमसमर्थाः पूज्यपादा भावनगरे एव चरमवर्षेषु तिष्ठन्ति स्म। प्रतिदिनं क्रमेण तेषां देहस्याऽनानुकूल्यं प्रवर्द्धते स्म । अथ वैक्रमीये रिपुलोचनाम्बर श्रवण (२०२६)वर्षे वैशाखकृष्णस्य एकादशीतिथिरागता। विशुद्धभावेनाऽऽवश्यकक्रियाः पूर्णीकृत्य 'मारवाडीवण्डो' इत्यभिधाने उपाश्रये प्रसन्नवदनाः पूज्यपादा व्यराजन्त। कियत्कालात् पूज्यपादानां स्वास्थ्यं प्रतिकूलमेवाऽऽसीत्, तथाप्यद्य विशेषतया प्रतिकूलं आसीत्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102