Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ ३२ स्वयमेवाऽऽत्मीयस्वास्थ्यस्य चिन्तामकृत्वा ग्लान साधूनामुपकण्ठमागत्य योग्यमौषधोपचारमज्ञापयन्, तथाऽऽनन्ददायकमागमवचनमपि चाऽश्रावयत्। एवं पूज्यपादानां वात्सल्यमप्यतुलनीयमासीत् । (१०) साधनामयं जीवनम् येनाऽत्मनो हितं साध्यते सा साधना। आत्मनो गुणानां वृद्धिः, दुर्गुणानां हानिः नाम साधना। सा साधनैव तेषां पूज्यपादानां प्राणभूताऽऽसीत्। पूज्यपादानां समस्तं जीवनं साधनामयं शास्त्रपूतं तथा निर्दम्भं त्याग-तितिक्षाज्ञानोपासनाभृतं चासीत्। तृप्तिरेव मोक्षाभिलाषिणां मुनीनां लक्षणमस्ति । अतृप्तिस्तु संसारिजीवानां भवाभिनन्दिनां जीवानां च लक्षणमस्ति । मुनयस्तु सदा परितृप्ता एव भवन्ति । तत एव परितृप्तात्मनां जीवनं सङ्घर्षविहीनं निरपवादं च शुद्धजीवनं चापि भवति। अस्माकं पूज्यपादाः परितृप्ता आसन्। तेषां चित्ते काऽपि तृष्णा-अभिलाषैव नासीत् । तत एव तेषां जीवनं क्लेशरहितं निर्मलजीवनमासीत् । पूज्यपादैः स्वजीवने न केनाऽपि सह सङ्घर्षः कृतः, सङ्घषु क्लेशो वोत्पादितः। पूज्यपादास्तु निर्लेपाः परितृप्ता आसन् , ततः जिनशासनस्य शोभैव मम शोभा एवं ते मन्यन्ते स्म। अथ पूज्यपादा विशेषण चारित्रशुद्धराराधका आसन्, अन्येषां प्रति कमलवत् मृदवः, परंतु स्वंप्रति तु वज्रनिभाः कठोरा आसन्। तत एव तैः स्वजीवने कदाप्यपवादमार्गोन स्वीकृतः। तपोविषये चारित्रविषये यावच्छरीरविषयेऽपि चापवादो न सेवितस्तैः। अन्तिमवर्षेषु शरीरेऽनेके रोगाः प्राप्ताः । नयनयोः तेजो मन्दीभूतमासीत्, तथापि न कदापि शिबिकायाः उपयोगः कृतस्तैः यावच्छरीरसामर्थ्यं तावत् विहार एव कर्तव्य इति दृढं ते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102