Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३१
RAHARIAN
एवं अस्माकं पूज्यपादाः ज्ञान-चारित्र-दर्शनविशुद्धाराधनया देदीप्यमानाः समर्था महापुरुषा आसन । तथापि स्वकीयं समस्तमस्तित्वं विस्मृत्य गुरुभगवतां चरणारविन्दे एवाऽल्पज्ञ-भक्तिमूढबालकवत् जीवितुं प्रयत्नवतां पूज्यपादानां समर्पण-मेतदस्मादृशेभ्यो गुरुवचने विमर्शकारिभ्यो बोधं ददाति ।
अस्मिन् शतवर्षे नैतादृशः समर्पिता आत्मानोऽस्मिन् शासनेऽभवन् । एवमागामिनि काले एतादृक्समर्पित आत्मा भविष्यति न वेति आशङ्का वर्तते । अधुना तु तादृशः समर्पणस्य गन्धलेशोऽपि न दृश्यते।
(९)
वात्सल्यम् ''अन्यं जनं दृष्ट्वा हृदये निर्व्याजानन्दस्य प्रकटनम्" इति वात्सल्यम् ।
यत्र वात्सल्यं तत्र भेदभावो न संभवति । 'मम-तव' इति भेदो वर्तते तत्र वात्सल्यस्य कल्पनाऽप्यशक्या।
अस्माकं पूज्यपादा एतादृशस्य निर्व्याजवात्सल्यस्य निधिरासीत् । यथा-ऊषरभूमौ ग्रीष्मकालस्य प्रचण्डातपेन तप्तः पथिक जनो जलं निरीक्ष्याऽऽहलादमनुभवति तथैवाऽसारसंसारे भ्रमन्तः सन्तोऽकल्प्ययातनामनुभवन्तश्च जना अपि पूज्यपादानां सदेशमागत्य तेषां वात्सल्यामृतपानं पीत्वा स्वहृदयेऽवर्णनीयां प्रसन्नतामनुबभूवुः । अद्यपर्यन्तमनुभूतं सर्वमपि दुःखशोकसमुदीयं विस्मृत्य नवीनं चैतन्यं प्राप्नुवन्ति स्म ते जनाः । पश्चात् तत्वात्सल्यप्रभावेण जीवनं जीवितुमपूर्वसामर्थ्यमलभन्त।
पूज्यपादाः साधुजनानां जननीनिभा आसन् । पूज्यपादश्रीशीलचन्द्रसूरीश्वरभगवन्मुखादनेकशः श्रुतं यद्, “यदाऽहं बालसाधुरासम् तदा केनाऽपि कारणेन गुरुदेवा अकुप्यन् तदाऽहं पूज्यपादानां निकटं गच्छामि स्म । ते पूज्यपादाः स्वकीयाङ्के मामुपावेशयन्, प्रेम्णा पृष्ठे स्वकीयं हस्तं प्रासारयन्। एवं तदके एव कियत्काल-मुपाविशम् ततो हृदयेऽनुपमा प्रसन्नतां चाऽन्वभवम्।
तथैव कदाचित् न केषामपि साधूनां स्वास्थ्यं सुखाऽनुकूलं भवेत् तर्हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102