Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 49
________________ ३४ क्रोध-माया-दम्भादिदुर्गुणा अपि वधैरन् । एवं च तस्य तीव्रमपि तपः कायदमनमेव भवेत्। तत एव शास्त्रेष्वपि तपो द्वैधं वर्णितम् - बाह्यतपः आभ्यन्तरं तपश्च । अस्माकं पूज्यपादैः बाह्यतपसा सहाऽऽभ्यन्तरतपोऽपि सेवितम् । तैः जीवनपर्यन्तं पर्वतिथौ अवश्यमेवोपवासः क्रियते स्म । जीवने अन्यदपि तपः कृतम् । अन्तिमे वयसि देहस्य दुर्बलत्वेन तपः कर्तुं तेऽसमर्था जाताः तत्कारणात् तेषां मन उद्धिग्नमभूत् । एकदा एकेन बालसाधुना 'उपवास प्रत्याख्यानं गृहीतम् । तं दृष्ट्वा पूज्यपादैः हस्ताञ्जलिः कृता । तदा तेन साधुना प्रोक्तं-प्रभो ! कथमेवं कृतम् । पूज्यपादा आहुःतवाऽनुमोदनं करोमि; यतः त्वं पुण्यवान् आत्माऽसि, पर्वदिनेषु विशेषं प्रत्याख्यानं करोषि, अहं तु किमपि न करोमि।" अहो ! कीदृशी लघुता। तथैव तपोभावनाया दाढ्यं समर्थन्नेकः प्रसङ्गः एकदा कर्णावतीनगरे विराजमानान् पूज्यपादान् वन्दितुं श्रीविजयधर्मसूरीश्वराः आगताः। पूज्यपादानां चरणस्पर्श कृत्वा सहसैवाऽवदन्ते - "सूरिराज'' ! भवदीयो देहोऽतीवोष्णोऽस्ति, ततः किमप्युपचारं कुर्वन्तु, यदा यावच्छरीरे प्रातिकूल्यं वर्तते तावत् विश्राम्यन्तु भवन्तः, पश्चाद् यत्किमपि कर्तव्यं भवद्भिः। पूज्यपादैः व्याकृतं ''महाराज ! अद्य विंशतिस्थानकपदस्याऽऽराधनायां पञ्चदशमगौतमपदस्याऽऽराधनायां षष्ठभक्तप्रत्याख्यानमस्ति। तथा च ज्वरं दूरीकर्तुं तप एव परममौषधमस्ति, विश्रामस्तु निश्यस्त्येव ।'' एतच्छ्रुत्वा श्रीविजयधर्मसूरीश्वराणां मुखात् वाक्यं प्रसृतम्, "ज्ञानयोगेन सह तपोयोगे रममाणानां महात्मनां दर्शनमपि कर्मक्षयस्य निदानमस्ति। (१२) विधिशुद्धिः सुप्रसिद्धोऽस्त्यस्मिन् जिनशासने श्रीशासनसम्राजां समुदायो विशुद्धं विधिविधानादि कर्तुं कारयितुं च । यत्राऽपि शासनसम्राजो विशुद्धं विधानमकारयन् तत्र रमणीयं मङ्गलमयं च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102