Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२८
आत्मनः शुद्धस्वभावो लभ्यते येन, स स्वाध्यायः ।
सदा स्वाध्याये एवाऽस्मदीयाः पूज्यपादा लीना आसन् । स्वाध्यायरमणता तेषां परमा सहचरी आसीत्। न कदापि स्वाध्यायं विना वृथा समयं गमयन्ति स्म ते। तैःप्रमादः समयव्ययो वा कदापि न कृतः । सदाऽप्रमत्तदशायां जागृत्यां चैव वसन्त आसन्।
अन्तिमवर्षेषु पूज्यपादानां 'वल्लि'नामकरोगात् दृष्टितेजः सर्वथा मन्दीभूतमासीत्। तथापि रात्रिंदिवं निरन्तरं शास्त्रस्याऽध्ययने जपयोगे चैव निमग्नाः तिष्ठन्ति स्म ते।
एकदा ज्ञानाभ्यासं कुर्वन्तो मुनीन् दृष्ट्वा तैरेको मुनिः कथितो यद्, “त्वं तु धनवान् भवसि, अहं तु दरिद्रो भवामि।"
एतच्छ्रुत्वा तत्र स्थिताः सर्वे स्तब्धा अभवन्। तैः कथितं,प्रभो ! किमर्थं भवन्तः एतादृशं वदन्ति ।
पूज्यपादा आहुः ''भो मुनयः ! मम नयने निस्तेजस्यभवताम्, युष्माकमिव कथमहं शास्त्रवाचनं कर्तुं समर्थो भविष्यामि । यूयं भविष्यथ, ज्ञानवृद्धिमपि च करिष्यथ, तथा कृत्वा च श्रद्धामपि दृढीकरिष्यथ । ततो यूयं सर्वेऽपि धनवन्त एव भविष्यथ। अहं तु न तत् किमप्यधुना कर्तुं समर्थोऽस्मि।"
तदा तैः मुनिभिः तेषां पूज्यपादानां स्वाध्यायलीनतायाः प्रशंसा कृता।
पूज्यपादैः प्रोक्तं - "यूष्माकं कथनं सत्यं भवेत्, किन्तु अस्माकं सर्वेषां क्षयोपशमस्य विचित्रता किं युष्माभिः न ज्ञाता?? पूर्वधरभगवन्तोऽपि मन्दक्षयोपशमिनः प्रमादिनो वा भवेयुः तर्हि तेऽपि सर्वं विस्मरेयुः तर्हि अस्मादृशां दुर्बलजीवानां का स्थितिः भवेत् ? एकस्य सूत्रस्य नैकेऽर्थाः एवं प्रभुणा गदितं, किन्तु ज्ञानिन एव तान् कर्तुं समर्थाः । अस्मादृशां त्वागम एव संसारोदधितरणस्य मार्गः। ततो नयनाभावे कथमहं शक्तो भविष्याम्यागमाध्ययनं कर्तुम् !।"
एतत्प्रसङ्गेन ज्ञायते, यत् स्वाध्यायरमणता का।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102