Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 38
________________ २३ आत्मनो निरीक्षणशक्तिसामhण बालकस्य तेजोदीप्तं ललाटं दृष्ट्वा मनसि चिन्तयांचक्रुः, अहो ! अस्य बालकस्य लक्षणानि शुभानि सन्ति, तथा वदनमपि जिज्ञासासमृद्धमस्ति; तेन संभाव्यते यद्, एष बालको यदि दीक्षां स्वीकुर्यात् तर्हि स चतुराशासु जिनशासनयशःप्रसारको भविष्यति, आगामिनि काले जिनमतधुरां वाहकोऽप्येष भविष्यति। ततस्तैः मधुरस्वरेण पृष्टम्, अत्र रोचते तुभ्यम् ? बालक आह - आम्, गुरुदेव !। अथ स बालकोऽपि प्रतिदिनं तत्र गत्वा शासनसम्राजामन्येषां मुनिभगवतां च भक्तिं तथा स्वकीयमध्ययनं करोति स्म। यथाकालं विहारं कुर्वन्तः शासनसम्राजोऽन्यत्र गतवन्तः। तदा स्थंभतीर्थनिवासिभिः अन्यैः बालकैः सहैष बालकोऽपि शासनसम्राड्भिः स्थापितायां जंगमपाठशालायामभ्यासं कुर्वन्नासीत् । एवं दशवर्षमात्रे वयस्येव स चत्वारि प्रकरणानि षट्कर्मग्रन्थानि पूर्णीकृत्य चन्द्रप्रभाव्याकरणस्याऽध्ययनमारभत। (४) प्रव्रज्याग्रहणम् "यादृशः सङ्गः तादृशः रङ्गः" एतत्कथनानुसारेण शासनसम्राजां देशनां श्रुत्वा पश्चात् बालकस्य चित्तं संयमं ग्रहीतुमुत्कण्ठितमभूत् । प्रतिदिनं तेषां मुनिभगवतां च सहवासात् बालकस्याऽऽन्तरमानसे स्थिता वैराग्यभावना दृढीभूता। यौवनकाले सत्यपि बालकस्य चेतः संसारस्य मनःप्रमोदकारिभ्यो विषयसुखादिभ्यो . निवृत्त्य त्यागस्य कठोरमार्गमुररीकर्तुमुल्लसितमभूत् । एवं संयमरागस्तु रक्तगत इव प्रबल आसीत् । तीर्थकरप्ररूपितः संयम एव शरणं मे, अन्यत्सर्वमपि निरर्थकम्, अतो दुर्गतिदेन भवपरम्परावर्द्धकेन च संसारेणाऽलम्, इत्येवं स्वमानसे निर्णयः कृतः। इतः एतन्मार्गग्रहणस्याऽनुमितेः प्राप्तिः सुदुर्लभाऽऽसीत् । तथाप्येकदा तेन बालकेन नम्रभावेन मनोगता भावाः पितृभ्यां कथिताः। पुत्रस्यैतत्कथनं श्रुत्वैव तौ स्तम्भवत् स्तब्धीभूतौ । ताभ्यां कथितं च यद्, अद्यप्रभृति न त्वयैषा वार्ता मे गृहे कदापि वक्तव्या । संयममार्गात् तं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102