Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 26
________________ ११ ॥६०॥ || १|| ॥ २ ॥ = नन्दनवनतीर्थप्रशस्तिः -विजयशीलचन्द्रसूरिः मनाप्रड्न नमः । श्री मुनिसुव्रतस्वामिने नमः । स्वस्ति। जयति जगति जिननायक-वीरप्रभुशासनं परमशिवदम्। नित्योदितं जगद्धित-मतिपुनितं विबुधगणमहितम् पञ्चमगणधरभगवान् श्रीवीरस्वामिपट्टगगनमणिः । श्रमणगणादिमपुरुषो जयति सुधर्माभिधः सुगुरुः तत्पदपारम्पर्ये तपगच्छोऽ तुच्छसद्गुणस्वच्छः। शास्त्राधारित-सुविहित-सामाचार्यां स्थितो भाति ॥३॥ नैके श्रुतधरपुरुषाः शासनमान्याश्च परमगीतार्थाः । चिरकालमन्वभूवन् , तपगच्छैश्वर्यमतिवर्यम् विक्रमतो विंशतितम-शतके गच्छेश्वरोऽभवत् सूरिः । श्रीविजयनेमिसूरिः शिष्यो मुनिवृद्धिचन्द्रस्य ॥५ ॥ सुविहित-संविग्नमुनि-व्रजधुर्यः सूरिचक्रवर्त्यपि च । जिनशासनसम्राडपि भूरिग्रन्थप्रणेता च ॥६॥ कापरडा-कादम्बा-चलप्रमुखानेकप्रत्नतीर्थानाम् । जीर्णोद्धारविधाता प्रभूतनृपबोधदाता च नैष्ठिकसद्ब्रह्मधरो युगप्रधानोपमोऽनुपमसत्त्वः । सच्चारित्रपवित्रो विशालशिष्यौघपरिकलितः तत्पट्टोदयपर्वत-शिखरे सूरोदयोपमः परमः । गीतार्थवृन्दमुख्यो विजयोदयसूरिराडभवत् || ९॥ तत्पट्टधरः श्रीमान् परमदयालुः सुतीक्षणसद्धिषणः। जिनशासने धुरीणो नन्दनसूरीश्वरः समभूत् ||४|| स च ॥७॥ !! ८ ॥ ||१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102