Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१५
शासनसम्राट्स्मृतिमन्दिरप्रशस्तिः=
यः -
-विजयशीलचन्द्रसूरिः गतवृजिनं वीरजिनं व्रतिनामिनमद्य संस्तुवे शमिनम्। दृष्टा यं प्राथम्येऽर्यमबुद्धिीतमस्याऽभूत्
॥१॥ गौतम-सुधर्मप्रमुखान् गणधरधुर्यास्तथा नमस्यामि । यदुपज्ञो गणिपिटकः प्रवहत्यधुनाऽप्यखिलसंघे
||२|| श्रीमत्सुधर्मगणभृत्-पट्टे चतुरधिकसप्ततिप्रमिते। श्रीवृद्धिविजयशिष्यः संजातो नेमिसूरीशः
॥३॥ तपगच्छेशः शासन-सम्राडपि सूरिचक्रचक्री च। बहुबहुतीर्थोद्धर्ता, नैकग्रन्थप्रणेता च
|| ४ ॥ अप्रितम प्रौढप्रतिभः, संयमनिष्ठश्च सत्त्वशाली च। संघस्य च यः कृतवान्, पथदर्शनमिह महापत्सु
||५|| अतुलमनन्यमनुपमं ब्रह्मव्रतपालनं सदा यस्य । यबलतः संकल्पै-र्वचनैरपि सिद्धतां स गतः
|॥६॥ हृदि कृतसत्यप्रतिष्ठो भवभीरुः प्रकृतिभद्रमूर्तिश्च ।
अनुकम्पाभृतचेता नेताऽपि श्रमणसंघस्य कार्तिकशुक्लप्रतिपदि नव-कर-नव-चन्द्र (१९२९)वत्सरे पुण्ये। मधुमत्यां शनिवारे, वीशाश्रीमालवंशके जातः
||८| लक्ष्मीचन्दतनूजो दीवालीबाइमातृसन्तानम्। श्रीनेमचन्दनामा समभून्निजनामधन्यः सः
||९॥ षोडशवर्षीयेण च जगृहे दीक्षा स्वयं विरागेण ।
तदनु च गुरुवर्यकृपा-सम्पादितहितततिः सोऽभूत् ॥ १०॥ ज्ञानोपार्जननिरत-श्चारित्राराधकस्तपस्वी च ।
क्रमशो योगोद्वहना-दवाप्तगणि-पण्डितादिपदः || ११॥
॥७॥
सच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102