Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ || १२॥ ॥ १३॥ ॥ १४॥ || १५॥ || १६॥ ॥ १७॥ शासनमान्यः शासनसेवारसिकः समस्तगुणकलितः। ज्ञात्वा पूज्यैर्योग्यः सूरिपदे स्थापितः समुदा कृतयोगानुष्ठानः सुविहितसंविग्नमार्गगामी च। समभूत् स एव प्रथमोऽस्मिन् शतके सूरिशार्दूलः तदनु च - निजजीवने समग्रे जीवदयां शास्त्रसेवनं सम्यक् । तीर्थानामुद्धारं रक्षणमपि सर्वदा कृतवान् गीतार्थशिष्यनिकरं निर्मितवान् कुशलशिल्पिवत् स तथा। निर्मापितवान् विधिवत् सहस्त्रशो नूत्नजैनबिम्बानि किं बहुना?- बहुभूपप्रतिबोधक-मीक्षित्वां यं भवन्ति स्मृतिविषयाः। श्रीहीर-हेमप्रमुखाः सूरीशास्तेजसांनाथाः अपि च - शर-ख-ख-कर(२००५)मितवर्षे आश्विनमासेऽथ दीपपर्वदिने। महुवापुर्यां रात्रौ, समाधिमरणं स आप गुरुराजः तज्जन्मस्थाने जिन-भवनं श्रीदेवगुरुप्रसादाख्यम् । देहान्तिमभूमावपि चैत्यं शिखरोन्नतं माति अथ च - स्वर्गारोहणवर्षा-दर्धशताब्द्यत्र वैक्रमे जाता। शर-शर-पुष्कर-कर(२०५५)मित-वर्षे हर्षप्रकर्षप्रदा महुवावास्तव्येन श्रीसंघेनाऽत्र वत्सरे कृतम्। स्मृतिमन्दिरं च विविधा महोत्सवा निश्चिता बहवः ततश्च - श्रीनेमिसूरिपट्टे सूरिविज्ञाननामकस्तस्य। पट्टे कस्तूरातः सूरीशस्तत्पदे यशोभद्रः तत्पट्टे च शुभङ्कर-सूरिस्तत्पट्टभूषणं चास्ति। श्रीसूर्योदयसूरि-निर्मलतेजोभरितमूर्तिः तस्याऽऽज्ञया तदीयः शिष्यः श्रीशीलचन्द्रसूरीशः। मुनिविमल-रत्न-कल्याण-धर्मकीर्तीतिनामधरैः ॥ १८॥ ॥१९॥ || २०॥ || २१॥ ॥ २२॥ ॥ २३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102