Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 28
________________ १३ किञ्च- श्रीस्तम्भतीर्थवासी श्रीवीशाओशवालवंशीयः । दलपतभाई झवेरी - नामाऽऽसीत् श्रावको धनिकः |॥ २३॥ सुन्दरलालेत्यभिध-स्तस्य सुतो देवगुरुपरमभक्तः। सद्धर्मकर्मकरणे नित्यं रक्तस्तथा जातः ।। २४ ॥ तद्भार्या श्रीजासुदबाईत्यभिधाऽभवत् सुकृतनिष्ठा । पातिव्रत्यघराऽथ च धर्ममतिः श्राविका सुभगा ||२५॥ तत्पुत्रत्रितयं खलु पूनमचन्देति तत्र प्रथमोऽस्ति। तदनु जसवंतलालो वीरेन्द्राह्वस्तृतीयश्च ॥ २६ ॥ पितृमातृभक्तिसंभृत-चित्तैस्तैर्मातृभावनां ज्ञात्वा । निजपितृकल्याणार्थं जिनगृहनिर्माणनिर्णयोऽकारि ।। २७ ॥ ततश्च- श्रीसूर्योदयसूरेस्तच्छिष्यात शीलचन्द्रसाधाश्च । समवाप्य सदुपदेशं तगडीग्रामेऽत्र चैत्यनिर्माणे ॥ २८॥ कृतसंकल्पैस्तैः किल रूप्यककोटिव्ययं निजं कृत्वा । उत्तुङ्गशिखरमण्डित - जिनभविनं कारितं शीघ्रम् ॥ २९॥ तत्रोपरितनभागे मुनिसुव्रतनाथमुख्यबिम्बानाम्। भूमिगृहे श्रीऋषभ-स्वाम्यादिकजैनबिम्बानाम् ॥ ३०॥ तैर्निजकुटुम्बसहितैः इतरश्राद्धैश्च गुरुचरणरक्तैः। दशदिवसीयमहोत्सव-पुरस्सरं कारिता प्रतिष्ठाऽपि ॥ ३१॥ श्रीसूर्योदयसूरेः शिष्य-प्रशिष्यादिपरिवृतस्य मुदा। निश्रायां विहितोऽञ्जन-विधिरपि विधिशास्त्रमनुसृत्य ॥ ३२॥ संवति समितिसमितिखे-क्षण(२०५५)प्रमिते फाल्गुने तथा मासे । पञ्चम्यां शनिवारे विहिता जिनभुवनसुप्रतिष्ठा ॥ ३३॥ अपरं च- तत्सममेव प्रतिष्ठित-मेतत्तीर्थस्य मङ्गलं नाम । 'नन्दनवनतीर्थ' मिति समस्तसंघेन शुभभावैः || ३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102